________________
5
10
15
20
25
३९० ]
[ पाण्डवचरित्रमहाकाव्यम् । दुर्योधनमोचनार्थं अर्जुनगमनम् ॥ बद्ध्वा केनापि पापेन गृहीतं व्योमचारिणा ।
गच्छ वत्स ! जवाद्वत्सं विमोचय सुयोधनम् ॥९०॥ अथ भीमोऽभ्यधादार्य ! किं न पश्यति विप्रियम् ? । दैवेनापि कृतं येन सहसेनास्मदीप्सितम् ॥९१॥ - जलक्षेप- -केशग्रहादयः । - द्यूत
गरदान
अपकारा रिपोरस्य कथमार्यस्य विस्मृताः ? ॥९२॥ ऊचे धर्मसुतो वत्स बान्धवस्य कनीयसः । तस्याप्यापत्प्रतीकारो मय्येवायततेतमाम् ॥९३॥ निजमापद्गतं सन्तो नोपेक्षन्ते कदाचन । भानुमान् विपदं हन्ति पङ्कजानां प्रगे प्रगे ॥ ९४ ॥ गोत्रं त्रातुमहोरात्रं कुलीनानामुपक्रमः । आम्नातो मुनिभिः पूर्वैरकुलीनो हि गोत्रहा ॥९५॥ अपि दुर्वृत्तमात्मीयं त्रान्ते भुवनोन्नताः । अप्युष्णं न हि पुष्णन्ति पयोदाः किमिरंमदम् ॥९६॥ यद्यप्यालोकयत्यस्तं पूर्णोऽसौ प्रतिपूर्णिमम् । तथाप्युपकोरत्येव चन्द्रं दर्शगतं रविः ॥९७॥ एते शतं वयं पञ्च यावद्वैरं परस्परम् । परैस्तु परिभूता हि वयं पञ्चोत्तरं शतम् ॥९८॥ तद्गच्छत्वर्जुनो बन्धुं विमोचयतु बन्धनात् । ईदृग्बन्धूपकाराय भूयोऽप्यवसरः कुतः ? ॥९९॥ आदेशमेनमासाद्य ज्यायसस्तस्थिवान् रहः । ततो विद्यामुखेनेन्द्रं पार्थः प्रार्थितवांश्चमूम् ॥१००॥ इन्द्रेण प्रहितस्तूर्णं शौण्डीरभटसङ्कटाम् । दधद्वैमानिकीं सेनामाययौ चन्द्रशेखरः ॥ १०१ ॥ ऐन्द्रं विमानमारूढः खेचरेन्द्रैरनुद्रुतः । आराध्यवर्गमानम्य प्रतस्थेः कपिकेतनः ॥ १०२॥
१. इरंमदं वडवानलम् । २. अमावास्यास्थितम् ।