________________
[३८९
10
नवमः सर्गः । भीमस्य कथनम् ॥]
वत्से ! मा स्म रुदः सत्यमीदृशी भवितव्यता । मया निषिद्धोऽप्यागच्छत्पतिस्तेऽत्र किमन्यथा ? ॥७७॥ इदानीमपि नान्येन पतिस्ते मोचयिष्यते । एकं गत्वा प्रपद्यस्व शरणं तपसःसुतम् ॥७८॥ स त्वद्भर्तुकृतांश्चित्ते नापकारान्करिष्यति । विशेषेणोपकर्तारः साधवो ह्यपकर्तरि ॥७९॥ इदं गुरुवचः कृत्वा हृदि तूर्णमिहागमम् । सम्प्रति स्वां पुरीं सोऽपि यियासुः खेचरेश्वरः ॥८०॥ इतो यदुचितं देव ! तद्विधेहि धियांनिधे ! । कुलव्योममणे ! नूनं तेजोहानिरियं हि ते ॥८१॥ श्रुत्वा मन्युमयीमेनां भीमो भानुमतीगिरम् । अपवार्य प्रियां मन्दमवादीत्फुल्ललोचनः ॥८२॥ देवि ! दिष्ट्याऽधुनैवेदं त्वत्केशग्रहसम्भवम् । नि. तियितुमारेभे वैरं दैवेन पश्य नः ॥८३॥ सुयोधनवधौत्सुक्यमार्येणात्माज्ञया पुरा ।। विनिवारितमस्माकमार्यादेशो हि मूर्धनि ॥८४॥ आर्योऽधुनाऽप्युदास्ते चेत्तत्र शत्रौ विपद्गते । किं ततः स्यान्न नः श्रेयो न ह्येवं तु करिष्यति ॥८५॥ येन स्नेहातिरेकेण वनेऽस्मिन्नयमाययौ । ' नार्येण स्मर्यते सोऽपि प्रियंवदनिवेदितः ॥८६॥ अथ भानुमतीमाह स्नेहार्दस्तपसःसुतः । मद्वन्धोरपि हा वत्से ! कीदृग् व्यसनमाययौ ? ॥८७॥ तमहं मोचयिष्यामि भ्रातरं नात्र संशयः । बद्धस्तु यन्मदीयोऽपि बान्धवस्तदुनोति माम् ॥८८॥ इत्याश्वास्य स्नुषां स्नेहादगत्वैकान्ते महीपतिः । भीमस्य याज्ञसेन्याश्च पश्यतोः पार्थमभ्यधात् ॥८९॥
15
20
25
१. शोकमयीम् । २. प्रतिकर्तुम् ।