________________
5
10
15
20
25
[ पाण्डवचरित्रमहाकाव्यम् । युद्धे कर्णस्य पलायन॑म् ॥ आयुधैः शक्तिनाराचशल्यशूलशरादिभिः । प्रजहुः पाणिमुक्तैश्च यन्त्रमुक्तैश्च ते समम् ॥३७॥ अथ तेषां विमानास्ते भिन्ना अपि तदाशुगैः । सरोमाञ्चा इव बभुर्जयलक्ष्मीकटाक्षिताः ॥३८॥ नैतन्याय्यमहो युद्धं भूमिस्थ- गगनस्थयोः । व्योमचारिचमूनाथः स्वान्भटानित्यवोचत ॥३९॥ संहृत्याथ विमानानि सेनया चतुरङ्गया । बभूव सोऽभ्यमित्रीणः पुरंदर इवावनौ ॥४०॥ सम्मोहं मोहनास्त्रेण लम्भयामास नो नृपान् । अबुध्यन्त न तेऽस्त्राणि पाणिभ्यः पतितान्यपि ॥४१॥ अभूत् कर्णः समाकर्ण्य राजन्यानां पराजयम् । दर्पोन्मदिष्णुदोर्दण्डः सानीकः समरोन्मुखः ॥४२॥ अथाभ्यधत्त राधेयं मुदा विद्याधरेश्वरः । अद्य त्वयि कृतोद्योगे पूर्णं मे कर्ण ! कौतुकम् ॥४३॥ चण्डगाण्डीवधन्वानं स्पर्धसे यस्तमर्जुनम् । इदानीं तस्य ते कर्ण ! दिष्ट्या द्रष्टास्मि विक्रमम् ॥४४॥ इत्युक्तस्तेन राधेयः सुविधेयधनुः क्रमः । मदीयं विक्रमं पश्येत्युक्त्वा चिक्षेप सायकान् ॥४५॥ तस्याक्षामभुजस्थाम्नस्तादृशीं लघुहस्तताम् । सोऽपि विद्याधराधीशः स्मेरचक्षुरवैक्षत ॥४६॥ निजमादानसंधानाकृष्टिविच्छेदगोचरम् । अनघं लाघवं सोऽपि राधासूनोरदर्शयत् ॥४७॥ तयोर्बभूव सुभटस्पृहणीयो महारणः । तस्थौ माध्यस्थमास्थाय जय श्रीरुभयोरपि ॥४८॥ अथ विद्याधरेन्द्रेण बाणैर्मर्मणि ताडितः । पलायनकलां नव्यां राधेयोऽध्यपितस्तदा ॥४९॥
१. शत्रुसम्मुखगामी - वीर इत्यर्थः ।
३८६ ]