________________
नवमः सर्गः । विद्याधारेण सह दुर्योधनस्य युद्धम् ॥]
[३८७ कर्णे नष्टे भवन्ति स्म खेचरा जितकाशिनः । सर्वोऽपि सुमनायेत निजिते दुर्जये ह्यरौ ॥५०॥ अथ क्रुद्धो भवद्वन्धुर्बन्धुभिर्निखिलैः सह । वीरंमन्यमरिं योद्धमढौकत समातुलः ॥५१॥ विलोक्य मूलसंनाहसहितं तं हसन्मुखः । अखर्वगर्वगरिमाऽवादीद्विद्याधरेश्वरः ॥५२॥ सुयोधन ! तवायं किं दोर्मदः ? श्रीमदोऽथवा ? । यदस्मदीयमुद्यानं सौधं चापि विलुप्यते ॥५३।। असौ मदगेदः कोऽपि निर्निदानोऽस्ति यस्तव । तच्चिकित्सां विधास्यामि निजायुधमहौषधैः ॥५४॥ अथाभ्यधाद्भवबन्धुरहो विद्याधरब्रुव ! । उपालम्भैरलं यस्य शक्तिस्तस्य जगत्त्रयी ॥५५॥ आत्तैः सौधादिभिर्बाद्यैः किमेभिर्वस्तुभिर्मम । जीवितव्यमपि क्षिप्रं तवाऽऽदास्ये सह श्रिया ॥५६॥ इति जल्पन्नसौ शत्रुमाजघान शितैः शरैः । प्रतिपक्षो हि नोपेक्ष्य इत्येषा वः कुलस्थितिः ॥५७॥ सर्वैः सर्वात्मना शस्त्रैः सोऽप्यरातिरयुध्यत । द्विषा विक्रमिणाऽऽक्रान्तः किन्नु कोऽपि प्रमाद्यति ? ॥५८॥ शराघातैर्भवद्वन्धोरन्धंभावुकविक्रमाः । सममेवारिवर्गीणाः पलायाञ्चकिरे क्षणात् ॥५९॥ अथाभ्यूह्य सुखग्राह्यमेकाकिनमरिं पुरः । अधावत भवबन्धुः सबन्धुविधृतायुधः ॥६०॥ काण्डीर: सोऽतिशौण्डीर: क्रुद्धक्रोड इव श्वभिः । कृत्वा कुण्डलनां रुद्धः सर्वैर्व्यावृत्त्य खेचरैः ॥६१॥ युध्यमानः स भूयोभिस्तैः सम्भूय नभश्चरैः । खेदयित्वा क्रमाद् बद्ध्वा गृहीतः सहितोऽनुजैः ॥६२॥
१. मुख्यम् । २. गर्वव्याधिः । ३. कारणरहितः । ४. काण्डीरो बाणवान् । ५. क्रोड: शूकरः । ६. वेष्टनम् ।