SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ [३८५ नवमः सर्गः । विद्याधरैः सह दुर्योधनस्य युद्धम् ॥] इत्थं वदन्तीं तां वीक्ष्य विद्याधरवरूथिनीम् । कटकं विकटक्षोभससंरम्भमभूत्तदा ॥२४॥ युग्मम् । अपनीयापणश्रेणि भीताः पटकुटीमयीम् । भाण्डानि वणिजो मझु वाहनेषु निचिक्षिपुः ॥२५॥ आदाय तनयान्बालानाकुला दुर्गतस्त्रियः । बद्ध्वा परिकरं सज्जीभवन्ति स्म पलायितुम् ॥२६॥ तनुत्राणं तनुत्राणं तूणं तूणं धनुर्धनुः । इत्थमास्माकपत्तीनामुच्चैः शुश्रुविरे गिरः ॥२७॥ राजन्यानां निवासेषु मदार्जितगर्जिताः । अग्राह्यन्तातिकृच्छ्रेण सन्नाहं हस्तिनस्तदा ॥२८॥ केचिद्वानायुजाः केचित्काम्बोजाः केऽपि सैन्धवाः । वाहाः केचिच्च वाह्लीकाश्चक्रिरे प्रक्षरान्विताः ॥२९॥ उन्मुखीभूय नः शौर्यत्रुटत्सन्नाहसंधयः । विद्याधरचमूमूचुरग्रानीकभटास्ततः ॥३०॥ अरे ! विद्याधराः ! क्रीडन्स्वच्छन्दं प्रभुरस्ति नः । अस्यालं केलिभङ्गेन वयं कण्डूहरा हि वः ॥३१॥ इत्यालप्य निशाताग्रैः शरैरूर्ध्वमुखैः समम् । भटास्ते प्रथयामासुरातिथ्यं परिपन्थिनाम् ॥३२॥ तदन्तिकमगत्वैव तैस्तदीयैः पतत्त्रिभिः । व्यावृत्तमफलैरेव सममस्मन्मनोरथैः ॥३३॥ शरासारैस्ततस्तेषां घनानां व्योमचारिणाम् । नामाप्यस्मदनीकस्य पङ्कस्येवानशत्तदा ॥३४॥ सोमदत्त-कलिङ्गेश-भगदत्त-जयद्रथाः विशल्य-भूरिश्रवसौ-चित्रसेन-बृहद्वलौ ॥३५॥ सुशर्मा कृतवर्मा च राजानोऽन्येऽपि भूरिशः । ततो डुढौकिरे योद्धं स्वयं सह नभश्चरैः ॥३६॥ युग्मम् ।। १. वानायु:-अरबस्तानदेशः तत्र जाताः । २. मेघपक्षे जलवृष्टिभिः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy