SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 10 ३८४] [पाण्डवचरित्रमहाकाव्यम् । भानुमत्या कथितः स्वभतृत्तान्तः ॥ दुर्योधनस्य मद्बन्धोः किं कोऽपि व्यसनोदयः ? । अनुयुक्तेति भूपेन धैर्यमालम्ब्य साऽभ्यधात् ॥११॥ देव ! कुर्वन्कृतार्थानि गोकुलानि विलोकनात् । इहाजगाम बन्धुर्वः स्वैरं द्वैतवनावनौ ॥१२॥ ततः स दातुमावासान् क्वचिदासन्नकानने । आदेशिनः समादिक्षत् ते व्यावृत्त्य व्यजिज्ञपन् ॥१३॥ देव ! देववनस्पद्धि वनमस्ति मनोरमम् । अस्ति सौधं च तस्यान्तर्यन्नास्ति धुसदामपि ॥१४॥ रक्षकेभ्यः परं तत्र प्रवेशोऽपि न लभ्यते । इति विज्ञापितः क्रुद्धो युष्मद्वन्धुरथादिशत् ॥१५॥ सन्नद्धसारशौण्डीरां चमूमादाय गच्छतः । यो भवेद्वो निषेधाय स वध्यो भवतामपि ॥१६॥ ततो हठान्निदेश्यैस्तैर्निगृह्य वनरक्षकान् । प्रगुणीकृतमध्यास्त तत्सौधं बान्धवः स वः ॥१७॥ चतुर्दिशं तदभ्यणे कर्णदुःशासनादयः ।। दत्त्वाऽऽवासान्सुखं तस्थुरुपचन्द्र ग्रहा इव ॥१८॥ भ्राताऽथ वस्तरुश्रेणिसश्रीके तत्र कानने । चिक्रीड नन्दनोद्याने पतिदिविषदामिव ॥१९॥ लीलाशिलोच्चये जातु वनान्तर्जातु वोऽनुजः । जातु क्रीडातडागेषु विजहार यदृच्छया ॥२०॥ उच्छृङ्गलश्चमूलोकः काननं तदमर्दयत् । म्लानिं मत्तं नयत्येव हास्तिकं नलिनीवनम् ॥२१॥ विमानैफ्नशे व्योम सङ्ख्यातीतैः परेद्यवि । विविधायुधभीमाभिः सङ्कटैर्भटकोटिभिः ॥२२॥ अन्यायवर्तनीपान्थः क्व रे सोऽस्ति सुयोधनः । वनस्यास्य प्रभुः सैष गवेषयति यत्नतः ॥२३॥ 15 20 25 १. हस्तिसमूहः । २. मार्गः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy