SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः । पाण्डवानां पुरो भानुमत्यागमनम् ॥] नवमः सर्गः ॥ तत्राथ पाण्डुपुत्राणां सुकृतान्येव चिन्वताम् । उपागादन्यदा भानुमती दुर्योधनप्रिया ॥१॥ दूरात् पाञ्चालसुतया कृतप्रत्युद्गमक्रिया । साऽतिम्लानमुखी कुन्तीं धर्मात्मजमथानमत् ॥२॥ भीमादिभिः कृतौचित्या द्रौपद्या दत्तमासनम् । साऽध्यास्य धारयामास राज्ञोऽग्रे चीवराञ्चलम् ॥३॥ अधोमुखी मषीश्यामवक्त्रा यत्नं दधत्यपि । रुद्धकण्ठी(ण्ठा) तदा बाष्पैर्वक्तुं नालम्बभूव सा ॥४॥ निष्पर्यायं तु निर्यद्भिर्मुक्तामणिकणोपमैः । अस्त्रैस्तं पूरयामास सा प्रसारितमञ्चलम् ॥५॥ वत्से ! जातं किमत्यन्तमेतदत्याहितं तव । इति धर्मसुतेनोक्ता मुक्तकण्ठं रुरोद सा ॥६॥ स्वयमाश्वासिता कुन्त्या समुत्थाय सबाष्पया । रोदसीपूरमाक्रन्दं मन्दं चक्रे क्रमेण सा ॥७॥ प्रमृष्टान्यपि पाञ्चाल्या वल्कलेनाधिकाधिकम् । तस्याः प्रसस्रुरश्रूणि नेत्रपुष्करिणीमुखात् ॥८॥ एष वत्से कथंकारं पृथुलः प्रार्थनाञ्चलः । पुरो ममेति सौत्सुक्यं पृष्टा ज्येष्ठेन साऽब्रवीत् ॥९॥ देवातिदीनया केनाप्यसूत्रिर्तपरित्रया । मयाऽयं भर्तृभिक्षायै धारितस्त्वत्पुरोऽञ्चलः ॥१०॥ १. अकृतरक्षणया । [ ३८३ 5 100 15 20
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy