________________
३८२]
[पाण्डवचरित्रमहाकाव्यम् । द्वैतवने पाण्डवानां स्थिरता ॥ स्वयं मणिमयं दाम पर्यधत्त तपःसुतः । आरोपयच्च पाञ्चाल्याः कर्णोत्तंसे तदम्बुजम् ॥५५९॥ मातुः पत्न्याश्च तैस्तत्र समाधिस्थैर्यदद्भुतम् । अत्यद्भुतं प्रभावं च स्मारं स्मारममुद्यत ॥५६०॥ प्रीति कदाचिदिन्द्रस्य नागेन्द्रस्य कदाचन । वर्णयन्तः सुखेन स्म समयं गमयन्ति ते ॥५६१॥ कदाचिज्जैनेन्द्रस्तवननवगुम्फव्यतिकरैः कदाचिन्मार्गस्थश्रमणचरणोपास्तिविधिना ।
कदाचिन्निर्णीतस्वसमयविचारोपनिषदा 10 दिनानि स्वान्येते किमपि चरितार्थान्यरचयन् ॥५६२।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये किरातार्जुनीय
तलतालवध-कमलाहरणवर्णनो नामाष्टमः सर्गः ॥८॥
१. उपनिषद्-रहस्येन ।