SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः । पाण्डवानां पुनः द्वैतवने आगमनम् ॥] अनयोर्नागनारीभिर्दोलाकेलिषु गीयते । किर्मीरादिवधप्रायमत्रापि चरिताद्भुतम् ॥ ५४६॥ तत्सम्प्रति ससोदर्यो वासराणि कियन्त्यपि । अवनीपाल ! पातालं पवित्रयितुमर्हसि ॥५४७॥ अथाभाषत ते सूनुस्त्वद्गवीयमहीश्वर ! । क्षरत्यस्मासु पीयूषं क्लेशमेनमनाशयत् ॥५४८॥ वर्तते त्वतिदुःखेन स्नुषा च जननी च वः । तथा कुरुत जीवन्त्यौ पश्याम्यहमिमे यथा ॥ ५४९॥ ततः पन्नगनाथोऽपि कथञ्चन सगौरवम् । विससर्ज ससत्कारमन्वव्राजीच्च ते सुतान् ॥५५०॥ नम्रस्तमनुगच्छन्तमवोचत तपःसुतः । तैडागरक्षानागेभ्यः प्रसीद द्वारसेवया ॥५५१॥ यदानुकूलं कर्तारः कर्णयुद्धे किरीटिनः । मां पुनः सेवितारस्ते शङ्खचूडादयस्तदा ॥ ५५२॥ इति दत्तोत्तरं धर्मसूनुः पन्नगपुङ्गवम् । प्रणम्य पादयोः सास्त्रं बलादेव न्यवर्तयत् ॥५५३॥ युग्मम् । तत् कुन्ति ! त्वत्तपः प्रह्वपुरुहूतनिदेशतः । अमी मया समानीय सुताः पञ्चापि तेऽर्पिताः ॥५५४॥ इन्द्रादिष्टमिदं चक्रे मम भक्तिस्त्वतः परम् । नयामि वो विमानेन यथेदानीं तथाऽऽदिश ॥ ५५५ ॥ अथाजल्पत् पृथा सौम्य ! त्वन्माहात्म्यं किमुच्यते । पुनर्वेगेन तत्रास्मान्नय द्वैतवने वने ॥५५६॥ तथा कृत्वा वचः कुन्त्यास्तानापृच्छ्य समुत्सुकः । तन्नेत्रैरनुयातोऽगान्नैगमेषी यथागतम् ॥५५७॥ पञ्चवर्षीमतीत्यैवमन्यान्यवनभूमिषु । पुनद्वैतवनोत्सङ्गमधितस्थौ युधिष्ठिरः ||५५८|| १. तडागारक्षना० प्रतिद्वयपाठः । [ ३८१ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy