SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 5 ३८०] [पाण्डवचरित्रमहाकाव्यम् । नागराजस्य मालादीनाम् अर्पणम् ॥ तैर्विज्ञप्तोऽपि नागेन्द्रः पाण्डवार्पितलोचनः । तस्थौ तथैव निष्कम्पं चिन्तयन्निव किञ्चन ॥५३३।। मयाऽथ वक्तुमारेभे कृतं भोगीन्द्र चिन्तया । अमी ते पाण्डवा येषां ख्यातं नाम जगत्त्रये ॥५३४॥ एषां राभसिको मा स्म कार्षीत् कञ्चिदतिक्रमम् । भवानिति सुरेन्द्रेण प्रहितोऽस्मि त्वदन्तिके ॥५३५॥ सदा जलचरैाहैरिव तावकपत्तिभिः । छलेन जलकेलिस्था रुद्धा ह्येते निरायुधाः ॥५३६॥ अतः परं यदौचित्यं स्वयमेतेषु वेत्सि तत् । पर्वसञ्जातयोगं हि चन्द्रं सत्कुरुते रविः ॥५३७॥ श्रुत्वेति मामिकां वाचं प्रीतस्त्वत्तनुजन्मनाम् । नागेन्द्रः स्वयमुत्थाय नागपाशानपास्थत ॥५३८।। निजासनसमानेषु सन्निवेश्यासनेष्वमून् । द्वारं निवारयामास तेषां त्वत्तनयद्विषाम् ॥५३९॥ सर्वानेकैकशो ज्ञात्वा नामतः क्रमतस्ततः । परिष्वज्य महीपालं पातालप्रभुरभ्यधात् ॥५४०॥ एवं भृत्यापराधान्मे क्ष्मापाल ! क्षन्तुमर्हसि । अवज्ञा पामरोपज्ञं न क्रोधाय महात्मनाम् ॥५४१॥ सर्वमेषा विषं हन्ति जङ्गमस्थावरात्मकम् । . एवमादिश्य तेनास्मै मणिमालेयमपिता ॥५४२॥ नयनोपान्तवास्तव्यं पाञ्चाल्याः कर्णभूषणम् । एतदस्त्विति सोऽस्य स्वं लीलाकमलमार्पयत् ॥५४३॥ पञ्चानामपि भर्तृणामिदं क्षेमे भविष्यति । भृशं विकस्वराकारमक्षेमे त्वविकस्वरम् ॥५४४॥ किञ्च धर्मात्मज ! श्लाघ्यस्त्वमेवासि जगत्त्रये । यस्य ते बान्धवावेतौ ख्यातौ भीमकिरीटिनौ ॥५४५।। १. पामरजनैः प्रथमं कृता इत्यर्थः, अत्र "उपज्ञोपक्रमं तदाद्याचिख्यासायाम्" (पाणिनि० २-४-२१) इति सूत्रेण समासः, परंतु नपुंसकेन भाव्यम् [तत्तु क्रियाविशेषणत्वेन] । 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy