________________
अष्टमः सर्गः । पाण्डवानां पुनरागमनम् ॥]
विस्मृत्य पयसः पानं मुक्त्वा वैरं परस्परम् । अतिष्ठन्मण्डलीभूय तत्पार्श्वे श्वापदा अपि ॥ ४९४॥ तयोः पश्यत माहात्म्यं क्रूरै रात्रिंचरैरपि । सञ्जातं यत्तदा जन्तुसंहारपरिहारिभिः ॥ ४९५ ॥ तयोर्व्यसनसाक्षिण्या वहन्त्या महतीं शुचम् । वयोविरावैः क्रन्दन्त्या क्षपयाऽक्षीयत ध्रुवम् ॥४९६॥ तयोर्दुष्कर्मभिर्नष्टं तिमिरच्छद्मना तदा । पुण्योद्द्योतः प्रभाव्याजात्प्रादुरासीच्च सर्वतः ॥४९७॥ तदानीं तद्वियोगार्तिम्लानमूर्ती विलोक्य ते । यौ क्वापि तुषारांशुरन्वेष्टुमिव पाण्डवान् ॥४९८॥ प्रातर्वातोच्छलद्वीचिच्छलतो मेन्तुमात्मनः । प्रमाटुमिव पादेषु लगति स्म सरस्तयोः ॥ ४९९॥ मुनीन्द्रैरपि दुःसाध्यां ध्याननिश्चलतां तयोः । रविर्द्रष्टुमिवारोहत्तदा पूर्वाद्रिचूलिकाम् ॥५००॥ अथ व्योम्नि क्रमाज्जाते याममात्रे त्रयीतैनौ । तथैव सावधानेषु श्वापदेष्वखिलेष्वपि ॥ ५०१ ॥ स्वच्छाम्भसः सरोगर्भाज्ज्योतिः समुदजृम्भत । अणुः किङ्किणीक्वाणः शुश्रुवे च श्रुतिप्रियः ||५०२॥ ततः स्वर्णमयस्तम्भं नानारत्नाङ्कवेदिकम् । विमानं निरगादेकं नाकस्येव निदर्शनम् ॥५०३॥ निर्निमेषाम्बुजव्याजात्कृत्वा नेत्राणि कोटिशः । नूनं सरोऽप्यनून ितदालोकतकौतुकात् ॥५०४॥ तीरे ततः समुत्तीर्य निस्तीर्णविपदर्णवाः । पादपङ्केरुहं कुन्त्याः प्रणमन्ति स्म पाण्डवाः ||५०५॥ दिव्यमूर्तिधरः कश्चिन्नरस्तैः सममागतः । स्फीतप्रीतिः पुरोभूय कुन्तीं प्राञ्जलिरभ्यधात् ॥५०६॥
१. पक्षिशब्दैः । २. अपराधम् । ३. सूर्ये । ४. स्वर्गस्य ।
[ ३७७
5
10
15
20
25