SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३७८] [पाण्डवचरित्रमहाकाव्यम् । नैगमेषिणा कथितो वृत्तान्तः ॥ दिष्ट्या ते फलितो धर्मः कुन्ति ! पारय पारय । एते लुठन्ति विनयात्तनयास्तव पादयोः ॥५०७॥ कायोत्सर्ग विसृज्याथ प्रमोदभरमेदुरा । पाणिना मृदु पस्पर्श कुन्ती प्रत्यङ्गमङ्गजान् ॥५०८॥ द्रौपदी च करे धृत्वा सा समाधिममोचयत् । पायं पायं पयः सर्वैः प्रतस्थे श्वापदैरपि ॥५०९॥ कुन्ती वहन्ती विजिताम्भोजकाननमाननम् । गत्वाऽथ केसरस्याधो न्यसीदत्सपरिच्छदा ॥५१०॥ ततः पप्रच्छ तं दिव्यमात्मजानां कथां पृथा । सोऽपि सानन्दमुन्मीलच्चमत्कारमचीकथत् ॥५११॥ महर्षेः कस्यचित् संप्रत्युदपद्यत केवलम् । इन्द्रस्तत्रोत्सवं कर्तुमगच्छदमुनाऽध्वना ॥५१२॥ वृत्रारेरेनमाकाशप्रदेशमुपसेदुषः । विमानस्य क्षणादासीदकाण्डे गतिखण्डनम् ॥५१३॥ विमानं मम को मूर्यो ममर्षः स्खलयत्यदः ? । असौ भिनत्तु दम्भोलिस्तस्य मौलिमनाकुलः ॥५१४॥ इति जल्पन्क्रुधा वज्रं वज्रपाणिः करेऽदधत् । मुहुर्व्यापारयामास क्रूराः प्रतिदिशं दृशः ॥५१५॥ युग्मम् । निरुपाधिसमाधिस्थे प्रेक्ष्य साक्षाधुवां ततः । मां फुल्लाक्षः सहस्राक्षो बभाषेऽभ्यर्णवर्तिनम् ॥५१६॥ पुत्रभर्तृवियोगार्ते सत्यौ श्वश्रू-स्नुषे इमे । समाहिते स्तस्तदयं विमानो याति नाग्रतः ॥५१७॥ नैगमेषिन्निमे विद्धि मान्ये सुमनसामपि । मातैका पाण्डवेयानामपरा च सधमिणी ॥५१८॥ माता कुन्ती ति विख्याता यस्य देदीप्यतेऽधिकम् । विपत्पङ्केऽपि सम्यक्त्वरत्नमत्यन्तभासुरम् ॥५१९॥ १. देवम् प्रतौ । २. समाधिमत्यौ । 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy