________________
३७६]
10
[पाण्डवचरित्रमहाकाव्यम् । कृष्णायाः अतिदुःखावस्था ॥ विपत्कन्दच्छिदाछेकं धर्ममेकं विदुर्बुधाः । धर्म्यमावां तत कर्म निर्मायं निमिमीवहे ॥४८१।। भवेदाप्तत्वनिर्वाहस्तथा सत्यावयोरपि । अभिधाय स्नुषामेवं विरराम पृथा तदा ॥४८२॥ अथोवोचत पाञ्चाली सत्यं मातस्त्वयोदितम् । मदुपज्ञा विपत्तेषामित्येतद् बाधतेतमाम् ॥४८३॥ अनेनानुशयेनात्मा मुहुर्दन्दह्यते मम । अकार्षं यत्तदाऽलीकं कमलाहरणाग्रहम् ॥४८४॥ कुन्ती कृष्णामथोवाच न ते दोषोऽस्ति कश्चन । अवश्यंभाविनो भावा 'निवार्यन्ते न केनचित् ॥४८५॥ तदानीमेत्य चन्द्रोऽपि चन्द्रातपपटाञ्चलैः । सौजन्यादिव पर्यश्रु तादाननममाजर्यत् ॥४८६॥ तयोः शोके निमीलद्भिः कमलैः सुजनायितम् । सहसा कृतहासैस्तु कुमुदैर्दुर्जनायितम् ॥४८७॥ ममार्हन्नेव देवश्चेद्गुरवश्च सुसाधवः । घ्नन्तु विघ्नं सुतानां मे ततः सम्यग्दृशः सुराः ॥४८८॥ उक्त्वेति कुन्ती स्मृत्वा च पञ्चापि परमेष्ठिनः । प्रलम्बितभुजावल्लिः कायोत्सर्गमसूत्रयत् ॥४८९॥ युग्मम् । अवादीद् द्रौपदी हंहो ! सुरकिन्नरखेचराः ! । शेषं विमुच्य व्यापारमेकं मे श्रूयतां वचः ॥४९०।। सुधांशुधवलं शीलं शश्वज्जानीथ चेन्मम । सन्निधत्त प्रियाणां मे क्वचिदापज्जुषां ततः ॥४९१॥ इति व्याहृत्य साऽप्यन्तर्मनसं बिभ्रती जिनान् । ग्रावोत्कीर्णेव निष्कम्पा कायोत्सर्गे व्यवस्थिता ॥४९२॥ तयोरभीष्टमाधातुं ध्यायन्त इव देवताम् । पादपा अपि नि:स्पन्दाः प्राणायामं दधुस्तदा ॥४९३॥
20
१. मायारहितं शुद्धमित्यर्थः । २. दारब्धनिर्वा प्रत्यन्तरे० । ३. सान्निध्यं कुरुत ।