SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 10 २४] [पाण्डवचरित्रमहाकाव्यम् । भीष्मेण कृतमम्बिकादिकन्यात्रयहरणम् ॥ राजानो राजपुत्राश्च शतशः सन्त्युपस्थिताः । आपतन्त्यधुना केचिदापतिष्यन्ति केचन ॥२७२॥ ततः कालकलापेन रूपेण वयसाऽपि च । योग्या विचित्रवीर्यस्य सुतास्ताः काशिभूपतेः ॥२७३॥ गाङ्गेयस्तद्वचः श्रुत्वा तत्त्वदृष्टिर्व्यतर्कयत् । किमहो काशिराजेन नानुजो मे निमन्त्रितः ? ॥२७४॥ न गन्तव्यमनाहूतैर्महीपालैः स्वयंवरे । अतो गत्वाऽहमेवैकः करिष्ये सर्वमीप्सितम् ॥२७५।। एवं विमृश्य गाङ्गेयो रथेन प्रस्थितो द्रुतम् । जवनैर्वाजिभिर्वेगादगमच्च स्वयंवरे ॥२७६।। तत्र सिंहासनासीनानुच्चैर्मञ्चेषु भूपतीन् । सोऽपश्यद्भासुराकल्पान्विमानेष्वमरानिव ॥२७७।। उरोलोलन्मनोहारिहारास्तिस्रोऽपि बालिकाः । दृष्ट्वा विचित्रवीर्यार्थे स हर्तुमकरोन्मनः ॥२७८।। प्रत्येकमात्मनः कन्यालाभं सम्भाव्य भूपतीन् । तांस्तान्विवृण्वन्तो भावान्हसति स्म स मानसे ॥२७९॥ अथ तासां पुरो धात्र्या कीर्त्यमानेषु राजसु । रथात्तार्क्ष्य इवोत्फालः स रङ्गाङ्गणमाविशत् ॥२८०॥ स तं स्वयंवरं राजनक्रचक्रसमाकुलम् । . बाढं विलोडयामास पयोधिमिव लीलया ॥२८१॥ आच्छिद्य कन्यारत्नानि सर्वेषामेव पश्यताम् । रथमारोपयामास भीष्मो भीष्मपराक्रमः ॥२८२॥ स्यन्दने भयनिस्पन्दा वेपमानवपुलताः । सुताः स काशिराजस्य स्निग्धमुग्धमभाषत ॥२८३॥ वत्साः ! किमपि मा भैष्ठ नानिष्टं वः करिष्यते । भीष्मोऽस्मि शान्तनोः सूनुर्भवतीनां प्रियङ्करः ॥२८४। 15 25 १. प्रास्थित इति प्र०द्वय । २. दीप्तभूषणान् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy