SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । विचित्रवीर्यस्य राज्याभिषेकः ॥] ... [२३ अभूत्कश्चित्स भूपानां हृदि चित्राङ्गदो गदः । नागदो नागदङ्कारः कोऽप्यासीद्य चिकित्सने ॥२५९॥ तेन नैष्यत भीष्मोऽपि संविभागी जयेऽपरः । अतः स युद्धमेकाकी चक्रे सार्धं विरोधिभिः ॥२६०॥ स निर्मलकलासद्मच्छद्मनाऽभ्येत्य जग्रसे । नीलाङ्गदेन संग्रामे शीतांशुरिव राहुणा ॥२६१।। शिरःशेषोऽपि चेद्वैरी तदा बाधेत राहवत् । उपानीयत भीष्मेण सोऽप्यतो नामशेषताम् ॥२६२।। अथ राज्यं कनिष्ठाय गरिष्ठो जाह्नवीसुतः । ददौ विचित्रवीर्याय बन्धवे बन्धुवत्सलः ॥२६३॥ तं भीष्मचापमाहात्म्यादपचक्रे न कश्चन । यूथनाथान्तिके केन कलभः परिभूयते ॥२६४॥ चतसृष्वपि विद्यासु गतावद्यासु कौशलम् । चक्रे कनीयसो भ्रातुर्भीष्मः सज्ये च धन्वनि ॥२६५।। अनहंयुतयाऽत्यन्तं भूम्ना वैनयिकेन च । बबन्ध बान्धवस्नेहं भीष्मस्तस्मिन्विशेषतः ॥२६६॥ दाराणामनुरूपाणां भ्रातुरुद्वाहहेतवे ।। गवेषणाय स प्रैषीन्निजान्प्रतिदिशं नरान् ॥२६७।। मार्गदत्तदृशे तस्मै कदाचिद्धूलिधूसरः । तेषामेकतमोऽभ्येत्य कथयामासिवानिति ॥२६८॥ देव ! श्रीकाशिराजोऽस्ति प्रकाशः काश्यपीतले । यस्य मन्दाकिनी नित्यमना गृहदीर्घिका ॥२६९॥ अम्बिकाऽम्बालिकाऽम्बा च तिस्रस्तस्यासते सुताः । विभान्ति पुरतो यासां तृणवत्रिदिवस्त्रियः ॥२७०॥ तासां तातेन विश्रब्धं प्रारब्धोऽस्ति स्वयंवरः । रचयाञ्चक्रिरे मञ्चास्तत्र वैचित्र्यशालिनः ॥२७१॥ १. ग्रासं चक्रे =विनाशितः । २. ज्यासहिते धनुषि च । ३. न अहंयु-तस्य भावेन= अगर्विष्ठतया। ४. पृथिवीतले इतिप्र० ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy