________________
प्रथमः सर्गः । काशिराजस्य क्रोधः ॥ ]
राजा विचित्रवीर्योऽस्ति जैत्रदोर्वीर्यदुर्जयः । एते सर्वेऽपि यस्याग्रे गुणैर्बहुतृणं नृपाः ||२८५ ॥ अनुभूय प्रियाभूय तस्य स्मरसमाकृतेः । हस्तिनापुरसाम्राज्यं चिरं निर्विशताद्भुतम् ॥२८६॥ विनयावर्जितोऽत्यन्तं तस्याहं बन्धुरग्रजः । तदर्थं रथमारुह्य युष्मानानेतुमागतः ॥२८७॥ तस्मिंस्ता निस्तरङ्गेण रागेणाक्रान्तचेतसः । इदं गाङ्गेयवचनं तथेति प्रतिपेदिरे ॥२८८॥ प्रतिपत्तिचलन्मौलिनृत्यत्ताटङ्करश्मिभिः । ताः स्फीतप्रीतयश्चक्रुस्तस्य नीराजनामिव ॥ २८९॥ राज्ञां मनोरथैः सार्धं रथं भीष्मो न्यवर्तयत् । कुर्वन्कुण्डलितं चापमुच्चैः स्वरमुवाच च ॥२९०॥ भो ! भूपाः प्रौढदोःस्थामशालिनः ।
सर्वे शृणुत
युष्माकं पश्यतां सैष भीष्मः कन्या हरत्यमूः ॥ २९१॥ ततो वः कोऽपि जागर्ति यदि दोर्दण्डचण्डिमा । तदा कोऽप्यायुधं धत्तामयमूर्ध्वदमोऽस्म्यहम् ॥२९२॥ तदा क्षुब्धार्णवनिभो रङ्गक्षोभभवो ध्वनिः । स कश्चिदासीन्मन्येऽसौ बिभिदे येन रोदसी ॥२९३॥ रभसोत्थास्नुभूपानां कृष्टाभिः सिचयाञ्चलैः । भूगताभिर्भयं भूरि प्रसूतमसिधेनुभिः ||२९४ || पलायनकृतेऽवश्यं व्यवस्यन्तोऽपि कातराः । संबाधकृतसंरोधात्प्रचेलुर्न पदात्पदम् ॥ २९५ ॥ मुक्ताकलापमुक्तानां चूर्णैः कीर्णाऽवनिर्बभौ । अमेयगाङ्गेययशश्चन्दनेनेव चर्चिता ॥ २९६ ॥ रत्नाङ्गदानामन्योन्यकोटिघट्टनसम्भवः ।
४
[ २५
क्षोमाणि क्षोणिपालानामधाक्षीदाशुशुक्षणिः ॥ २९७॥
१. नित्यरङ्गेण इति प्र० द्वय । २. पूर्लोकाः इति प्रत्य० । ३. संबाधः - सङ्कीर्णता, तया संरोधो येषां ते । ४. अग्निः ।
5
10
15
20
25