________________
5
10
15
20
25
३७२ ]
[ पाण्डवचरित्रमहाकाव्यम् । द्रौपद्याः वनक्रीडा ॥
अथैते तनयस्नेहलहरीहृतचेतसः । आश्लिष्यन् रभसाद्वालं तं सर्वे पाण्डुसूनवः ॥४२७॥ भक्तिरोमाञ्चिता कामं प्रणामं कृतपूर्विणी । सा कुन्तीयाज्ञसेनीभ्यां सस्नेहं समभाष्यत ॥४२८॥ अथोज्जृम्भन्नवाम्भोजं हृष्टो दृष्ट्वा सरःपुरः । स्नुषां स्वस्थानयानार्थमनुमेने महीपतिः ॥४२९ ॥ आश्चर्यलहरीहेतोः सेतोरुपरि तस्थिवान् । बन्धूनां दर्शयामास मारुतिः सरसः श्रियम् ||४३०॥ दिवि दिव्याब्जसौरभ्यलुभ्यद्भृङ्गावलिच्छलात् । छत्रं तडागराजस्य राजते मेघडम्बरम् ॥४३१॥ लोलैरेतानि कल्लोलैः शतपत्राणि पश्यत । कृष्णावक्त्रजितानीव स्वमन्तर्दधते पुरः ॥४३२॥ इमां भीमगिरं श्रुत्वा दक्षिणेऽक्ष्णि स्फुरत्यथ । प्रपेदे द्रौपदी प्रीतिमप्रीतिं च समं तदा ॥४३३॥ मातुः पादौ स पुंनागः पुंनागस्य तरोरधः । स्वोत्सङ्गसङ्गिनौ कुर्वन्नुपासामास धर्मसूः ॥ ४३४ ॥ वर्द्धिष्णुफलपुष्पर्द्धिरम्यासु वनराजिषु । शेषास्तु पाण्डवाः स्वैरं रेमिरे सह कृष्णया ||४३५॥ ददुस्तरून्समारुह्य प्रियायै कुसुमानि ते । सा तु तेभ्यः प्रतीच्छन्ती मुदमूर्ध्वभुजा ददौ ||४३६॥ कुतूहलात्स्वयं कर्तुं पुष्पावचयमिच्छती । सा प्रियैः स्कन्धमारोप्य चक्रे पूर्णमनोरथा ||४३७|| मनोहारीणि निर्माय कुसुमाभरणानि ते । परिधाप्य प्रियां प्रेम्णा परां मुदमलम्भयन् ॥४३८॥ केतकीदलदीर्घेण कटाक्षेण वृकोदरम् । प्रियाऽथ प्रेरयामास कमलाऽऽहरणाय सा ॥४३९॥
१. पाले । २. गृहणन्ती ।