SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः । भीमस्य जलक्रीडा पाण्डवानां च नागसरसि मज्जनम् ॥] [३७३ तरीतुमतिनिष्णातस्तीरे त्यक्त्वा गदां मुदा ।। स जगाहे तडागं तं पाथोधिमिव मन्दरः ॥४४०॥ विचक्षणः क्षणान्मज्जन्नुन्मजंश्च क्षणादपि । बन्धूनां दर्शयामास स्वसंतरणकौशलम् ॥४४१॥ संविष्टो वा निविष्टो वा क्वचिदूर्ध्वंदमोऽथवा । बहुधा बन्धुहर्षाय जलकेलिमसौ व्यधात् ॥४४२॥ नलिनानि सनालानि बहिरुच्चित्य सोऽक्षिपत् । अग्रहीन्नीरतीरस्था द्रौपदी मुदितानना ॥४४३॥ उच्चित्योच्चित्य पद्मानि क्षिपन्नेवं वृकोदरः । तरन् यातः सरोमध्यं ममज्जान्तर्जलं क्षणात् ॥४४४।। जले मग्नोऽन्यदाप्येष चिरेणोन्मज्जतीति ते । औदासीन्यजुषोऽभूवंस्तदा सर्वेऽपि बान्धवाः ॥४४५॥ प्राणेश ! द्रुतमुन्मज्ज कृतं मज्जनकेलिना । इत्याकुलमनास्तारं जगाद द्रुपदात्मजा ॥४४६॥ अर्जुनार्जुन ! धावस्व वेगतो भीममाकृष । कश्चिद्दुष्टाशयो ग्राहः सूनुं मे नूनमग्रहीत् ॥४४७॥ इति कुन्तीगिरा पार्थः समर्थः शत्रुनिग्रहे । ददावन्तर्जलं झम्पां दीपे शलभवद् द्रुतम् ॥४४८॥ युग्मम् । आसेदिवान्प्रदेशं तं मग्नः पार्थोऽपि पाथसि । बृकोदरानुगामित्वान्नोन्ममज्ज चिरादपि ॥४४९॥ उभावपि भुजे धृत्वा जानीताशु समुद्धृतौ । इति जल्पन् विवेशासु नकुलः प्रणयाकुलः ॥४५०॥ प्रवृत्तिरासीत्तस्यापि प्रत्यावृत्तिस्तु नाभवत् । व्यवसायोऽन्यथा पुंसां विधातुः पुनरन्यथा ॥४५१॥ चिरयन्ति कथं मग्ना बन्धवोऽमी ? इति ब्रुवन् । सहसा सहदेवोऽपि वेगादेत्य जलेऽपतत् ॥४५२॥ १. त्रोटयित्वा । २. जले।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy