SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ [३७१ 10 अष्टमः सर्गः । युधिष्ठिरेण स्मृता हिडम्बा, तस्याश्चागमनम् ॥] इत्यादेशान्नरेशस्य ते सर्वेऽपि प्रतस्थिरे । तेषामुपादिशन्मार्गं भग्ना भीमेन भूरुहः ॥४१४॥ गिरिभिविषमः पन्थास्तैर्ललझे कथञ्चन । एकस्यास्तु महानद्यास्तीरे खिन्नोऽवदन्नृपः ॥४१५॥ भीमः स नास्ति यस्यासौ महानद्यपि गोष्पदम् । एतामुत्तीर्य भीमेन कोऽस्मान्सङ्गमयिष्यति ? ॥४१६॥ अथाऽऽह पार्थो मे देव ! विद्याः सन्ति वशंवदाः । तासामन्यतमाऽप्येतत् करोत्वीप्सितमादिश ॥४१७॥ ततोऽवादीदजातारिर्महासाहायकोचिताः । विद्याः स्वल्पे न कार्येऽस्मिन् व्यापारयितुमर्हसि ॥४१८॥ पथि नियूंढसाहाय्या हिडम्बा तु पुरापि नः । इदानीमपि तामेव स्मर्तुमिच्छति मे मनः ॥४१९॥ इत्युदीर्य स्नुषां सद्यः सस्मार च युधिष्ठिरः । भीमाभ्यर्णस्थमात्मानं सकुटुम्बं ददर्श च ॥४२०॥ हिडम्बां सह बालेन सोऽपश्यत्प्रणतां पुरः । अवादीच्च दृशा सिञ्चन्सुधावीचिवयस्यया ॥४२१॥ कच्चित्कुशलिनी वत्से ! गुर्वादेशैकतत्परे ? । अयं च कोऽयमनघो लघुीम इवापर: ? ॥४२२॥ अथ सा कथयामास देव ! स्मरसि यत्पुरा । अन्तर्वत्नी विसृष्टाऽहमेकचक्रावनात्त्वया ॥४२३॥ गताया मे पितुर्गेहे तनयोऽयमजायत ।। विद्याभिः पात्रलाभेन मुदितं यस्य जन्मनि ॥४२४॥ भुजास्थाम्ना निराम्नायान् पितुः शत्रून्करिष्यति । असाविति ममाख्यायि मुहुर्मोहूर्तिकैस्तदा ॥४२५॥ अयं मे ज्ञातिचक्रेण चक्रे नाम्ना घटोत्कचः । कलाश्चाध्यापितः काश्चित् काश्चिदध्येष्यतेऽधुना ॥४२६।। 15 20 25 १. सन्ततिरहितान् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy