________________
[३६७
अष्टमः सर्गः । अर्जुनस्येन्द्रपुरे गमनम् ॥]
गङ्गाम्बुविमला तस्य जिनोपासनवासना । पापपङ्कमपाकर्तुमपुष्णात्प्रभविष्णुताम् ॥३६२।। पुनर्विमानमारुह्य कीर्त्यमानोऽथ बन्दिभिः ।। उत्क्षिप्तकेतनां पुष्पप्रकराञ्चितचत्वराम् ॥३६३॥ उत्तोरणां रणत्तूर्यां सूर्यप्रतिनिधिद्युतिः । पार्थः खेचरराजस्य राजधानीमुपाययौ ॥३६४॥ (युग्मम्) सानन्दैः खेचरीवृन्दैर्लाजाक्षेपपुर:सरम् । पीयमानाङ्गलावण्यः स सौधद्वारमागमत् ॥३६५॥ प्रस्तुतोलूलुकल्लोलं लोलाक्षीभिः किरीटिनः । प्रवेशमङ्गलाचारं चकारेन्द्रप्रिया स्वयम् ॥३६६॥ स्वयं सिंहासनासीनस्तं कृत्वोत्सङ्गसङ्गिनम् । वासवः कारयामास पुरः सङ्गीतमङ्गलम् ॥३६७॥ स चिरात्खेचरास्त्राणि किरीटं कवचं तथा । तदा प्रदाय पार्थाय स्वं कृतार्थममन्यत ॥३६८॥ अग्रजः सर्वपुत्राणां मम सूनुरसौ जनैः । ज्ञातव्य इति सर्वत्र घोषयामास वासवः ॥३६९॥ कञ्चित्कालमिहैव त्वं तिष्ठ लक्ष्मी कृतार्थयन् । पार्थमभ्यर्थयाञ्चक्रे तदेति त्रिदशेश्वरः ॥३७०।।
ओमित्युक्त्वा कनीयोभिर्बान्धवैरिव तत्सुतैः । सानन्दोऽस्य पुरे जिष्णुर्विजहार यदृच्छया ॥३७१॥ स्मरार्ताः पुरकामिन्यः कामयन्ते स्म फाल्गुनम् । वशी स्वदारसंतुष्टो न तु ताः स कदाचन ॥३७२॥ उपेत्योपेत्य तं प्रेम्णा वृणते स्म पतिवराः । स्मरन् बन्धुवनक्लेशं प्रेतीयेष न ताः स तु ॥३७३।। चित्राङ्गद-विचित्राङ्ग-चित्रसेनादयः शतम् । आययुः खेचरास्तत्र फाल्गुनालोकनार्थिनः ॥३७४॥
१. उर्वीकृतध्वजाम् । २. सूर्यसदृशकान्तिः । ३. ऐच्छत् ।