SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ३६६ ] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनेन्द्रयोः सिद्धकुटे गमनम् ॥ अवस्था पर्यवस्थातृसार्थेऽधः पार्थ ? वीक्ष्यताम् । त्वया छत्रेषु भग्नेषु छाया गृधैर्विधीयते ॥ ३४९ ॥ रेणवश्चन्दनायन्ते शोणितं कुङ्कुमायते । रुष्टेनापि त्वयाऽरीणां दत्तमङ्गप्रसाधनम् ॥३५०॥ सुखकृत्त्वं प्रतीपोऽपि यत्ते शत्रून् प्रिया इव । शिवाः श्लिष्यन्ति चुम्बन्ति दारयन्ति नखैरपि ॥ ३५१॥ असौ हहा ! कुसंसर्गान्निसर्गसरलाशयः । गतः परासुतां वत्सो विद्युन्माली दुनोति माम् ॥३५२॥ भवत्यपेया पीयूषगर्गरी गरसङ्गिनी । सूत्रं तु पुष्पसंसर्गादारोहति शिरः सताम् ॥३५३॥ इदं हिरण्यहर्म्याकं सुवर्णपुरमग्रतः । वयं यत्र स्थितैरेतैर्मुहुर्मुहुरुपद्रुताः ॥३५४॥ युद्धोपाध्याय ! शत्रूणां स्त्रियः शोकं त्वयाऽधुना । अध्यापिताः पुरस्तारैः पूत्कारैर्गुणयन्त्यमूः ॥३५५॥ काश्चिच्चिकुरसंभारं त्रोटयन्ति मुहुर्मुहुः काश्चित्प्रतिक्षणं वक्षःकुट्टिमं कुट्टयन्ति च ॥ ३५६॥ क्षिपन्ति दूरमश्रूणि हारमुक्ताश्च काश्चन । मन्यन्ते च दुकूलानि प्रतिकूलानि काश्चन ||३५७॥ त्वत्क्षुरप्रा द्विषां क्षिप्रं लग्नाश्छिन्दन्तु कंधराम् । कथं कुचस्थले तासां लुलुपुः पत्त्रवल्लरीम् ? ॥३५८॥ वयं वेगाद्विमानस्य वैमनस्यविनाशकृत् । अर्हच्चैत्याञ्चितं वत्स ! सिद्धकूटमुपागताः ॥३५९॥ अथोत्तीर्य विमानेभ्यः सर्वे श्रद्धालुचेतसः । तत्र शाश्वततीर्थेशं वर्धमानं ववन्दिरे ॥ ३६० ॥ दुष्प्रापं दर्शनं मत्त्वा विशेषाज्जिनमर्जुनः । स्नात्रानन्तरमानर्च तुष्टाव च मुहुर्मुहुः || ३६१॥ १. प्रतिपक्षसमूहे ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy