________________
[३६५
10
अष्टमः सर्गः । इन्द्रार्जुनयोः समागमः ॥]
साधु साधु महाबाहो ! धनंजय ! चिरं जय । एते प्रत्यथिनः प्रौढा लीलयैव त्वया जिताः ॥३३६।। इत्यानन्दपर: पार्थमभिनन्दन्पुनःपुनः । आलिलिङ्ग स सर्वाङ्गमुन्मीलत्पुलकाङ्करः ॥३३७॥ युग्मम् । अथ व्योम्नि विमानेन हर्षादायान्तमन्तिके । वासवं दर्शयामास सारथिः पाण्डुसूनवे ॥३३८॥ दिष्ट्या दृष्टिमितो देहि सखेचरपरिच्छदः । सङ्ग्रामकौतुकादेति पुरतस्ते पुरंदरः ॥३३९।। रथस्थ एव पार्थस्तं प्रीतः प्रत्युद्ययौ दृशा । कृत्वा विमानमासन्नं तमिन्द्रोऽप्यध्यरोहयत् ॥३४०॥ पाण्डवं प्राग्दृशा पीत्वा सस्नेहमुपगृह्य च ।। निवेश्य चासनस्यार्धे स बद्धाञ्जलिरभ्यधात् ॥३४१॥ तवैतस्योपकारस्य माभून्मे प्रत्युपक्रिया । उपकर्तरि दुःस्थे हि भवेत्प्रत्युपकारिता ॥३४२॥ तवोपश्लोकनावाक्यं किं ब्रूमः किं त्वतः परम् । इदं राज्यममी प्राणा व्यापार्यन्तां यदृच्छया ॥३४३॥ नेत्रोत्सवाय पौराणां त्वमेहि रथनूपुरम् । खेचरीमङ्गलाचार: संस्तुतोऽस्तु तवाधुना ॥३४४॥ समानवयसं वीक्ष्य पाण्डुना तं धनंजयः । भक्तिभारनमन्मूर्धा सप्रश्रयमवोचत ॥३४५॥ तातेन पाण्डुने(नै)वाहं भवद्भिः परवानिह । केवलं यातुधानानां राजधानी ममाधुना ॥३४६॥ प्रसिद्धं सिद्धकूटं च द्रष्टुमस्ति कुतूहलम् । इति विज्ञाप्य विनयी पार्थस्तूष्णीकतां दधौ ॥३४७।। युग्मम् । हुंकारेण ततः प्रेर्य विमानं गगनाध्वना । इन्द्रः प्रीतिपरोऽवादीन्निवातकवचगृहम् ॥३४८॥
15
20
25
१. इन्द्रं-नृपम् । २. निवातकवचस्य राक्षसस्य शत्रुम्-अर्जुनमित्यर्थः ।