________________
३६४]
[पाण्डवचरित्रमहाकाव्यम् । राक्षसानां पराभवः ॥ प्रगल्भबुद्धयो योद्धमलङ्कर्मीणबाहवः । शत्रवो दुर्जया ह्येते तद्रथं वालय क्षणात् ॥३२३॥ सोऽप्यभाषत कौन्तेय ! तवैतन्नोचितं वचः । ऐन्द्रोऽरिवधनिस्तन्द्रः सांयुगीनो रथो ह्ययम् ॥३२४॥ अभ्यस्तमस्य चक्राभ्यां भूमेराक्रमणं पुरः । रणकर्मविपश्चिद्भ्यां पश्चात्तु न कदाचन ॥३२५।। मन्येऽरीणां विधेयानि भागधेयानि साम्प्रतम् । यत्त्वं युद्धधुरीणोऽपि रणाद्वालयसे रथम् ॥३२६॥ पार्थोऽवादीदहो नाहं कालं कञ्चिदपि क्षमे । तवायमञ्जलिर्बद्धो रथं वालय वालय ॥३२७॥ कर्णजाहं न गाहन्ते यद्वा तेऽमूर्गिरो मम । वरेण प्राक्प्रदत्तेन रथो व्यावर्त्यतां रणात् ॥३२८।। इत्युक्तः सोऽथ कृष्णास्यः स्यन्दनं तं व्यवर्तयत् । ते चानुपदिकास्तस्य जैत्रंमन्या दधाविरे ॥३२९।। जयश्रीवल्लभंमन्या मुखाग्रन्यस्तपाणयः । ते श्वेडां युगपच्चक्रुः कृतान्ताह्वानसन्निभाम् ॥३३०॥ स्मृत्वा द्रोणार्पितं मन्त्रमनेकविशिखप्रसूः । बाणः प्राणहरस्तेषां मुमुचे सव्यसाचिना ॥३३१॥ एकस्मादप्यथैतस्मात्स्फुलिङ्गा इव पावकात् । यावद्विद्वेषि निर्जग्मुः प्रेङ्क्षत्पुङ्खाः शिलीमुखाः ॥३३२॥ युगपच्चलितास्ते च तालनि सह पाणिभिः । अरीणां लीलया भित्त्वा निर्ययुर्जीवितैः सह ॥३३३॥ शराशनिहताः पेतुर्भुवि ते पर्वता इव । पपात पुष्पवर्षं च पार्थमूनि नभोऽङ्गणात् ॥३३४॥ तदत्यद्भुतमालोक्य श्रुत्वा च दिवि दुन्दुभिम् । बभार सारथिः फुल्लत्पुण्डरीकमिवाननम् ॥३३५।।
१. कर्णमूलम् । २. सिंहनादम् । ३. यावन्तो विद्वेषिणस्तावन्तो यथास्यात् तथा । ४. अशनिः वज्रम् - शरासनिहिताः इति क्वचित्पाठः ।
15
20
25