SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ [३६३ अष्टमः सर्गः । अर्जुनस्य राक्षसैः सह युद्धम् ॥] इत्यालोच्य प्रहर्तुं ते प्रावर्तन्त धनंजयम् । बाणैः फणैरिवोत्फालैर्वैनतेयमिवाहयः ॥३११॥ तदा तेषामनीकेषु रसन्ति स्म समन्ततः । रणतूर्याणि कीनाशप्रवेशपटहा इव ॥३१२॥ तरणे: किरणश्रेणिं ते बन्धीचक्रिरे शरैः । तांस्तु च्छित्त्वा बिसच्छेदं मोचयामास फाल्गुनः ॥३१३॥ स्थित्वा स्थले जले व्योम्नि तेऽयुध्यन्त यथा यथा । तान् रथावस्थितः पार्थः प्रतीयेष तथा तथा ॥३१४॥ किं सारथिमथो रथ्यान् रथिनं वा महारथम् । वर्णयामः किमेतेषां मुह्यन्ति स्मेति खेचराः ॥३१५॥ कपिकेतुः पुनर्लक्ष्मीमुपेन्द्रं नेतुमुत्सुकः । रथेन मन्दरेणेव ममन्थ समरार्णवम् ॥३१६।। वयो मधुरमल्पीयः परं चारिषु पौरुषम् । पश्यन् पार्थकुमारस्य मुमुदे चन्द्रशेखरः ॥३१७।। चलन्तः पार्थमनसा सांयुगीनपदक्रमाः । वाजिनो रेजुरिन्द्रस्य जयश्रीस्निग्धबन्धवः ॥३१८॥ प्रत्येकं विशिखांश्छिन्दन्नेकोऽपि कपिकेतनः । तेऽभूवन् युधि यावन्तस्तावान् वा ददृशे स तैः ॥३१९॥ मुक्ता यथा तथा बाणा नैतत्प्राणापहारिणः ।। पार्थोऽतस्तान्न चिक्षेप तांश्चिच्छेद द्विषां पुनः ॥३२०॥ न कृता दक्षिणेर्माणो दुष्कर्माणः किरीटिना । ततः सर्वाभिसारेण जघ्नुस्ते जितकाशिनः ॥३२१॥ एकत्र पिण्डितान् शत्रून्वीक्ष्य प्रहरतो मुहुः । पार्थः किञ्चिदिवौत्सुक्यादवोचच्चन्द्रशेखरम् ॥३२२॥ 15 2n - १. सर्पोः । २. युद्धनिपुणपदक्रमाः । ३. अत्र 'पार्थोऽपि तान् निचिक्षेप चिच्छेद द्विषतां पुनः' । इति गद्यपाण्डवचरितधृतः पाठो युक्तः प्रतिभाति । ४. दक्षिणे ईर्माणि व्रणानि येषां ते ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy