SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३६२] [पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य राक्षससैन्ये आगमनम् ॥ अयं पन्थाः पृथासूनो ! प्रयाति स्थनूपुरम् । अस्ति वास्तोष्पतिर्यत्र त्वदर्शनसमुत्सुकः ॥२९८॥ अयं वामः पुनः पन्थास्तद्रिपूनुपतिष्ठते ।। सन्ति येषूद्धता योद्धमुद्धतास्तलतालवः ॥२९९।। अथाऽऽह पार्थः सोत्कण्ठं प्रतिपन्थिषु मे मनः । मुखमेषामनालोक्य नैवेन्द्रं द्रष्टमुत्सहे ॥३००॥ तच्चन्द्रचूड ! यत्रैते तत्रैनं स्यन्दनं नय । यथा जानामि ते हन्त ! कियन्तः सन्ति शत्रवः ॥३०१॥ ऊचे चन्द्रावतंसोऽथ तत्र किं गमनेन ते । प्रतिपक्षाः परोलशास्त्वं तु बाहुपरिच्छदः ॥३०२॥ यदा प्रत्यथिसैन्ये स्याः समुद्रे सक्तुमुष्टिवत् । अरण्यरुदितप्रायास्तदा स्यु! मनोरथाः ॥३०३॥ इन्द्रादिष्टामधिष्ठाय ध्वजिनीं तत् कपिध्वज ! । शत्रूनुच्छेत्तुमागच्छेमन्त्रस्तावदयं मम ॥३०४॥ अर्जुनः पुनरप्यूचे किं चमूभिरमून्प्रति । भिनत्ति कुम्भिनां कुम्भानिभारिः किं परिग्रहः ? ॥३०५॥ खेचरस्तदवष्टम्भमुदितोऽथ रथं ततः । नुनोद यत्र शौण्डीर्यकेतवः कालकेतवः ॥३०६॥ दृढं कवचितास्ते च गृहीतविविधायुधाः । सव्यसाचिनमायान्तं पश्यन्तो जगदुर्मिथः ॥३०७॥ रथोऽभ्येति यदैन्द्रोऽयं चन्द्रशेखरसारथिः । आहूतः पुरुहूतेन पार्थस्तद् ध्रुवमागतः ॥३०८॥ पञ्चत्वमस्मादस्माकं मुहुर्मीहूर्तिकैरहो । आदिष्टमिति नो माति हास्यमास्ये प्रसृत्वरम् ॥३०९॥ अस्त्रैः शस्त्रैश्च निःशेषैरशेषेण भुजौजसा । सर्वेश्छद्मप्रयोगैश्च शत्रुमेतं निशुम्भत ॥३१०॥ 15 25 १. इन्द्रः० । २. नाशयत ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy