________________
[३६१
अष्टमः सर्गः । अर्जुनस्य वैताढ्यं प्रति गमनम् ॥]
तदस्य स्रपनाम्भोभिः कुरु दिव्यौषधैरिव । निजाङ्गे गुणमाणिक्यरोहण ! व्रणरोहणम् ॥२८५।। इत्युक्त्वा विरते तस्मिन्नस्मयः कपिकेतनः । ज्येष्ठबन्धुमिवाश्लिष्य खेचरेन्द्रमवोचत ॥२८६॥ युग्मम् । आज्ञा युधिष्ठिरस्येव तवापि ज्येष्ठबान्धव ! । परोपकारसुरभिौलिमाल्यायतां मम ॥२८७॥ एतच्च वेद्मि यत्पूर्वं प्रस्थितस्य वनं प्रति । अर्पयित्वेदमार्यस्य पाण्डुस्तातः समादिशत् ॥२८८॥ अङ्गुलीयमिदं वत्स विशालाक्षेण मेऽर्पितम् । महाप्रभावमेतद्धि सदा दध्याः स्वसन्निधौ ॥२८९॥ अत्र चागच्छतः क्षिप्तमार्येणापि ममाङ्गलौ । कनीयसि गरीयस्यो ज्यायसां प्रेमसम्पदः ॥२९०॥ विशालाक्षस्य पाण्डोश्च द्वयोरपि तयोस्ततः । निष्प्रत्यूहमयं स्नेह: सन्तानमनुवर्तताम् ॥२९१॥ इत्युक्त्वा विरतं भूत्वा स्यन्दने सारथिः स्वयम् । रूढवणगणं पार्थमनैषीच्चन्द्रशेखरः ॥२९२॥ अनुद्घातं सुखेनाशु रथेन मरुतां पथि । स गच्छन्दर्शयामास वैताढ्यं सव्यसाचिनः ॥२९३।। स एष भरतक्षोणे: सीमन्तः पुरतो गिरिः । मुदा विद्याधरीवृन्दैस्त्वद्यशो यत्र गीयते ॥२९४॥ पञ्चाशद्योजनी पिण्डस्तदर्धं च समुच्छ्रितम् । त्वद्यशोराशिविशदः सैष राजति राजतः ॥२९५॥ गतायां दशयोजन्यामूर्ध्वश्रेण्यावुभे शुभे । अभितःशैलमासाते दशयोजनविस्तृते ॥२९६॥ इमां च दक्षिणश्रेणिं वेगतो वयमागताः ।। रथो रथाङ्गबाहुभ्यां पश्याऽऽश्लिष्यति काश्यपीम् ॥२९७॥
१. गुणरत्नानां रोहणाचल ! । २. पुत्रपौत्रादिपरंपराम् । ३. रजतमय: रुप्यमयः इत्यर्थः ।