SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ३६० ] [ पाण्डवचरित्रमहाकाव्यम् । इन्द्रविद्याधरवृत्तान्तः ॥ सङ्क्रन्दनस्तदाक्रान्तावनलंभूष्णुदोर्बलः । भीतभीतस्सदैवास्ते पिहितैः पुरगोपुरैः ॥२७२॥ इन्द्रः दः सोपद्रवं राज्यमाकलय्य कलानिधिः । अन्वयुङ्क्त बुधं नाम नैमित्तिकशिरोमणिम् ॥२७३॥ अमी दुर्वारदोर्वीर्या दुर्जया मम वैरिणः । कथञ्चनापि जीयेरन् यदि तद्भद्र कथ्यताम् ॥ २७४॥ ज्ञानेनालोक्य सोऽप्याह देवामी तव शत्रवः । विजीयन्तेऽर्जुनेनैव नैव चान्येन केनचित् ॥ २७५॥ नास्त्येव तत्समो धन्वी त्रैलोक्येऽपि विलोक्यताम् । यच्चापाद्युगपद्यावदमित्रं स्यु पतत्रिणः ॥२७६॥ विद्याः प्रसादयन्नद्राविन्द्रकीलेऽस्ति सोऽधुना । प्रार्थ्यतां प्रार्थनाशूरस्तद्गत्वा प्रश्रयोज्ज्वलम् ॥२७७॥ इत्याख्यातवतस्तस्य कृत्वा सत्कारमादरात् । मामभ्यर्णस्थितं स्नेहाद् व्याहरत्खेचरेश्वरः ॥ २७८॥ सखे ! खेदापनोदाय यतस्वाऽर्जुनमानय । पुंस्कुञ्जरेण तेनारीनुन्मूलय तरूनिव ॥ २७९ ॥ किं चार्जुनेन सौजन्यमस्त्येव तव पैतृकम् । प्राक् पाण्डुना विशालाक्षो बद्धस्ते मोचितः पिता ॥ २८० ॥ इति त्वां मित्रकार्यार्थं पार्थ ! सोऽहमुपस्थितः । तदेहि देहि भूयोऽपि राज्यमिन्द्रस्य पैतृकम् ॥२८१ ॥ इदं च यत्तवोद्दीप्तमङ्गुलीयकमङ्गलौ । विशालाक्षस्य पाण्डोश्च तत्प्रीतेः प्रतिभूर्मिथः ॥ २८२॥ ततः पाण्डुमहाराजकृतामुपकृतिं पराम् । सहस्रशो विशालाक्षः कथयामास संसदि ॥ २८३॥ सन्ति मे व्रणसंरोह - विहायोगमनादयः । अङ्गुल्याभरणस्यास्य प्रभावानुभवा मुहुः ॥२८४॥ १. इन्द्र विद्याधरनृपः । २. अपृच्छत् । ३. शराः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy