SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः । इन्द्रराज वृत्तान्तः ॥ ] तस्याभूतां सुतौ तीव्रतेजसा विपुलौजसा । इन्द्राभिधस्तयोराद्यो विद्युन्माली तथाऽपरः ॥ २५९॥ संस्थाप्येन्द्रं निजे राज्ये स्वाराज्यसुहृदि स्वयम् । कनिष्ठं यौवराज्ये च प्रव्रज्यामाददे नृपः ॥ २६०॥ चिरत्नानां यतीनां च भूपतीनां च वर्त्मना । मुनीन्द्रश्च नरेन्द्रश्च प्रपेदाते परं पदम् ॥२६१॥ इन्द्रो न नाम नाम्नैव संपदाऽपि बभूव सः । सर्वे तत्रेन्द्रपर्यायाः प्रायुज्यन्त जनैस्ततः ॥२६२॥ । इन्द्रेण सर्वथा त्यक्तां युवराट् यौवनोद्धतः । कृपयेव समादत्त सादरं दुर्विनीतताम् ॥२६३|| गृहाण दारान्पौराणां सर्वस्वानि मुषाण च । पुषाण च महापीडां स पुरीमित्युपद्रवत् ॥२६४॥ ततः पौरैरुपालब्धः संतप्तैर्नीतिवत्सलः । कृत्वैकान्ते कनीयांसं क्षोणीपतिरशिक्षयत् ॥२६५॥ समजायत वैराय तस्मिशिक्षाऽपि दुर्मदे । विषाय किं न पीयूषमपि स्यात्पन्नगेऽर्पितम् ? ॥२६६॥ अथ मुक्त्वा पुरीं कोपाद्दुरात्मा तस्थिवान्बहिः । निजवंशनभश्चन्द्रमिन्द्रमुच्छेत्तुमिच्छति ॥२६७॥ निवातकवचा नाम खरदूषणवंशजाः । राक्षसाः सुहृदस्तस्य सुवर्णपुरवासिनः ॥ २६८ ॥ भूयांसस्ते बलीयांसः कृतान्तादप्यभीरवः । ततो लोकेन सर्वेण कीर्त्यन्ते कालकेतवः ॥२६९॥ तालुन्येकपदे विद्धे समं पाणितलेन यत् । विपद्यन्ते निगद्यन्ते तेन ते तलतालवः ॥२७०॥ नित्यं युतस्तैर्दो: प्रौढैर्वैताढ्याभ्यर्णवर्तिभिः । समास्कन्दत्यवस्कन्दैर्विद्युन्माली स्वमग्रजम् ॥२७१॥ १. स्वर्गसदृशे । २. पुरातनानाम् । ३. धाटीभिः | [ ३५९ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy