________________
5
७७॥
10
३६८] [पाण्डवचरित्रमहाकाव्यम् । अर्जुनप्रयाणः इन्द्रनृपस्य च शोकः ॥
इन्दोः सवर्णानाकर्ण्य गुणान्प्रेक्ष्य च ते स्वयम् । धनुर्वेदादिशिक्षासु गुरुं चक्रुः किरीटिनम् ॥३७५।। लज्जयामास न द्रोणं शिक्षादानक्रमेण सः ।। गुरुवैनयिकोत्कर्षे न च ते सव्यसाचिनम् ॥३७६॥ अचिरेणैव पारीणाः कलानां तेऽथ जज्ञिरे । विद्याब्धिकर्णधारो हि योगः सद्गुरुशिष्ययोः ॥३७७॥ ददुः सर्वस्वमप्येते बलाज्जिष्णुर्यवारयत् । इत्यभूत्कलहस्तेषां गुरुणा दक्षिणाकृते ॥३७८॥ निषिद्धाः पाण्डुपुत्रेण समयापेक्षिणस्ततः । कृतज्ञाः कल्पयामासुः प्राणांस्ते गुरुदक्षिणाम् ॥३७९।। ते च विद्याधराधीशाः सर्वे च्छायावदन्वहम् । तस्थुः प्रतस्थिरे चापि सहैव कपिकेतुना ॥३८०॥ चित्राङ्गदस्तु गन्धर्वो गीतेन वरिवस्यति । ततोऽस्मिन्नधिकां प्रीतिं प्रथयामास पाण्डुसूः ॥३८१॥ इन्द्रवात्सल्यतः पार्थः शिष्याणां चोपचारतः । भूयांसं गमयामास कालमेकाहलीलया ॥३८२॥ कदाचिद्वान्धवोत्कण्ठाविवशीकृतमानसः । इन्द्रमामन्त्रयामास गमनाय धनंजयः ॥३८३॥ रथं दिव्यं विमानं च चन्द्रचूडं च सारथिम् । इन्द्रः समर्प्य बाष्पाम्बुप्लुताक्षो विससर्ज ताम् ॥३८४॥ मनोवेगविमानस्थैश्चित्राङ्गदपुरःसरैः । विद्याधरैरनुगतः प्रतस्थेऽथ कपिध्वजः ॥३८५।। स साश्रुनयनाम्भोजः पर्यश्रुमनुगामिनम् । आविष्कृतबहुस्नेहं बलादिन्द्रं न्यवर्तयत् ॥३८६॥ प्रथयन्तौ कथास्तास्ताश्चित्राङ्गद-किरीटिनौ । एकं विमानमारुह्य वियन्मार्गेण जग्मतुः ॥३८७॥
15
25
१. सदृशान् ।