SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ [३५३ अष्टमः सर्गः । पाण्डवानां गन्धमादनपर्वते गमनम् ॥] निजश्रीगर्वितोऽरातिर्न दृश्येत तथा सति । वनवासकृशास्तेन दृश्येमहि वयं न च ॥१८१॥ प्रत्यपद्यन्त भीमाद्यास्तामाज्ञामग्रजन्मनः ।। अप्युल्लुण्ठधियां पुंसां गुर्वादेशो नवाङ्कशः ॥१८२।। मातृभ्रातृप्रियोपेतः प्रतस्थेऽथ महीपतिः । उदात्तः सह यूथेन यूथाधिप इव द्विपः ॥१८३॥ वरिवस्यन्स तीर्थानि नमस्यंश्चारणान्मुनीन् । नाना चित्राणि पश्यंश्च ययौ पूर्वोत्तरां दिशम् ॥१८४॥ क्रमाद्भुवमतिक्रम्य तटिनीशैलसंकट(टा)म् । भूधरं स ययौ साधु बन्धुभिर्गन्धमादनम् ॥१८५॥ नक्तमिन्दूपलोद्वान्तैर्वारिभिर्यत्र पूरिताः । प्रावृषेण्यां तरङ्गिण्यः शश्वदश्नुवते श्रियम् ॥१८६॥ प्रियैरुपासितोपान्ता यस्मिन्नादेशवर्तिभिः । विलासान् दधते तांस्तानीप्सितानप्सरोगणाः ॥१८७॥ तस्मिन्स्वादुफलश्लाघ्येभूरिनिर्झरशालिनि । बबन्धुर्वसतिप्रीतिं पाण्डवेया निराधयः ॥१८८॥ सर्वर्तुकमनीयानां वनानां रामणीयकम् । तेषां विस्मृतिमानिन्ये तत्र शत्रुपराभवम् ॥१८९॥ कुन्ती क्रियासु धासु तत्र व्यापृतमानसा । हस्तिनापुरराज्यस्य न सस्मार मनागपि ॥१९०॥ विदित्वाऽथ समीपस्थमिन्द्रकीलं नगोत्तमम् । सव्यसाची महीभर्तुर्दर्शयामास विस्मितः ॥१९१॥ देव ! यन्नितरामिन्द्रः क्रीडत्यत्र शचीसखः । इन्द्रकील इति ख्याति ततः प्रापदसौ गिरिः ॥१९२॥ खेचरैयॊमगैरेव खिन्नश्छाया महीरुहाम् । अत्राधोगामितिग्मांशौ सेव्यन्ते सान्द्रशीतलाः ॥१९३॥ १. सेवमानः । २. भूधवः प्रतिद्वये० ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy