________________
5
10
151
20
25
३५२]
[ पाण्डवचरित्रमहाकाव्यम् । द्रौपद्यादीनां क्रोधोद्गाराः ॥ वनेऽस्मिन् क्लिश्यते स्नेहमोहिता वो हिताय या । देवी साऽपि न किं कुन्ती तवोद्बोधयति क्रुधम् ? ॥१६८॥ निश्चिन्तोऽसि किमेवं त्वमसावभ्येति ते रिपुः । उत्तिष्ठस्व ततः स्वामिन् निधेहि दृशमायुधे ॥ १६९॥ प्रतिज्ञाभङ्गभीतोऽथ न त्वमुत्सहसे स्वयम् । इहायातमरिं हन्तुं भीम - पार्थौ तदादिश ॥ १७० ॥ अथैनां द्रौपदीवाचमिष्टामनुवदंस्तदा । भीमोऽभ्यधत्त देवास्ति तवाज्ञैव ममार्गला ॥१७१॥ तवादेशं वहन्मूर्ध्नि पुराऽहं नाहनं रिपुम् ।
तं जिघांसुमिहाऽऽयातं न सहिष्येऽधुना पुनः ॥ १७२॥ देव ! प्रसादितोऽसि त्वमागतश्चेत्स दुर्मतिः । तदा मम गुरुर्न त्वं न विधेयोऽप्यहं तव ॥१७३॥ हस्तिनापुरसाम्राज्यगर्वपर्वतमस्तकात् ।
लीलयैव पराजित्य पातयिष्यामि विद्विषम् ॥१७४॥ अथास्या भीमभारत्यास्तदा वाचः किरीटिनः । विवृण्वत्यस्तमेवार्थं भाष्यलीलायितं दधुः ॥१७५॥। एतास्तेषां गिरः श्रुत्वा वाचमूचे युधिष्ठिरः । अभ्यधीयत युष्माभिः क्षत्रवंशोचितं वचः ॥ १७६॥ परं ममानुरोधेन हायनानि कियन्त्यपि । बहुधाऽपि विराध्यन्तं विपक्षं क्षन्तुमर्हथ ॥ १७७৷ वनवासावधौ पूर्णे तीर्णे सत्यव्रते मया । को युष्मानभ्यमित्रीणान्स्खलिष्यत्यर्णवानिव ? ॥१७८॥ तदा भीमाद् रणे भीमाद्दुःशासनसमन्वितः । लब्धा दुर्योधनः कृष्णाकेशाकर्षणनिष्क्रियम् ॥१७९॥ तदिदानीमितो गत्वा सेव्यन्तां स्वःसनाभयः । उल्लसल्लवलीगन्धा गन्धमादनभूमयः ॥ १८०॥ १. विनयस्यः, अभि० ४३२ । २. स्वर्गतुल्याः ।