SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ [३४७ अष्टमः सर्गः । शकुनि-दुर्योधनयोः मिथो वार्ता ॥] यर्जितभुजेनेदं त्वया साम्राज्यमर्जितम् । शतांशेनापि तन्नासीद् युधिष्ठिरमहीपतेः ॥१०३॥ सावलेपास्तपःसूनोराज्ञां ये नानुमेनिरे । तेऽपि भूपतयो जातास्तवादेशवशंवदाः ॥१०४॥ सन्त्येते हस्तिमल्लस्य प्रतिमल्ला इव द्विपाः । एते च देवदेवाश्वबान्धवाः सैन्धवाः पुरः ॥१०५॥ साम्परायिकसञ्चारकृतार्थरथिनो रथाः । पत्तयश्चाप्युपानीतवैरिवातविपत्तयः ॥१०६॥ चमूरमूदृशी विश्वे त्वदृते कस्य दृश्यते ? । तमोपहा रवेरेव केवलं किरणावलिः ॥१०७॥ श्रीरियं ते कृतार्थीस्यात्पश्येयुर्यदि पाण्डवाः । दृष्टा मित्रैरमित्रैश्च संपत् संपन्निगद्यते ॥१०८॥ गोकुलालोकनव्याजाव्रज द्वैतवनं वनम् । ततस्तत्र दशां शोच्यामुपेतान्पश्य पाण्डवान् ॥१०९।। राजा राज्यच्युतान् भोगी भोगैः काममपाकृतान् । ससैन्यो निष्परीवारानकृशोऽतिकृशाङ्गकान् ॥११०॥ यदा वीक्षिष्यसे तांस्ते तदा मोदिष्यते मनः । अन्याश्चित्रातपापाये स्युर्धान्यस्य मुखे श्रियः ॥१११॥ तेऽपि त्वामद्भुतश्रीकं दृष्ट्वा म्लास्यन्ति निश्चितम् । व्यथन्ते पार्वणे चन्द्रे दृष्टे दन्ता हि दन्तिनाम् ॥११२॥ यद्वीक्ष्यते विपक्षाणां मानिभिः श्रीविपद्गतैः । स एव मृत्युरेतेषां मृत्युस्तु न तु जीवितम् ॥११३।। अथ सत्यव्रतं बन्धोरनपेक्ष्य शुभैस्तव । सामर्षावायुधं धत्तः करे भीमार्जुनौ यदि ॥११४॥ ततो जानीहि सञ्जातं भूमण्डलमपाण्डवम् । महार्णवमिवानीकं तव को हि स्खलिष्यति ? ॥११५॥ १. मुखश्रियः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy