________________
10
३४६]
[पाण्डवचरित्रमहाकाव्यम् । शकुनि-दुर्योधनयोः मिथोवार्ता ॥ तदानीं युष्मदीयैस्तैः श्रुतैरपि यशोजलैः । देवस्तं निबिडं पाण्डुः शोकपङ्कमपाकरोत् ॥८९॥ स पाण्डुना परित्यक्तः सर्वः सुखविपर्ययः । साभिमान इवोर्वीशं दुर्योधनमशिश्रियत् ॥१०॥ न प्रियाङ्के न पल्यते न वने भवने च न । न स्थले न जले क्वापि रतिमालम्बते स्म सः ॥९१॥ अथाभ्येत्य तथाऽवस्थं शकुनिस्तमभाषत ? । धराधव ! तव व्याधिराधिर्वा कोऽयमुत्कटः ? ॥९२॥ येन दावानलज्वालादग्धस्थाणूपमं वपुः । वहसे सहसाऽस्माकं ब्रूहि दंदह्यते मनः ॥९३॥ अथाभ्यधत्त गान्धारीतनयो दुर्नयैकभूः । सर्वंसहः सहायोऽस्मि त्वं मातुल ! ममातुलः ॥९४॥ पश्य मां विफलारम्भं कृत्वा जीवन्ति पाण्डवाः । विरोधिनि विधौ पुंसां वृथैव स्युर्मनोरथाः ॥१५॥ विषं पीयूषगण्डूषः पश्य तेषामजायत । जातुषागारदाहोऽपि पयोवाहजलप्लवः ॥१६॥ हिडम्ब-बक-किर्मीरवधाडम्बरडिण्डिमैः ।। भुर्भुवःस्वस्त्रयीरङ्गे तेषां कीर्तिः प्रनृत्यति ॥९७॥ आजन्म विद्विषो ये ते जीवन्तीत्यपि दुःसहम् । किं पुनर्जनितानन्दा नन्दन्ति प्रतिपत्तनम् ॥९८॥ धुर्यो मर्माविधामेष व्याधिर्मां बाधतेऽधिकम् । तदेतस्यागदङ्कारः सम्प्रत्यप्रतिमो भव ॥९९॥ इत्युदीर्णमनःखेदमाकलय्य सुयोधनम् । सदा दुर्नयदुर्गन्धो गान्धारीबान्धवोऽभ्यधात् ॥१००॥ त्वयि देवेन्द्रशौण्डीर्यावमन्तरि निहन्तरि । यमगेहाङ्गणारब्धताण्डवान् विद्धि पाण्डवान् ॥१०१॥ पाण्डवाः क्व ? भवान् भूमीमण्डलाखण्डलः क्व च ? । कः साम्यं बहु मन्येत खद्योतद्युतिमालिनोः ? ॥१०२॥
15
20
25