________________
अष्टमः सर्गः । विदुरादिनां शोकः ॥ ]
ततो गजपुरे गत्वा वार्ताया वः शुचा जनम् । एकं दुर्योधनं मुक्त्वा स्वसधर्माणमादधाम् ॥७६॥ देवेन पाण्डुना छन्नमार्येण विदुरेण च । पृष्टोऽहं कथ्यतां भद्र ! भद्रं मे तनुजन्मनाम् ॥७७৷৷ अचीकथं यथादृष्टमिष्टेतरदहं तयोः । तावप्यशृणुतां पश्चात्पूर्वं मूर्च्छामगच्छताम् ॥७८॥ मयोपवीज्य चैतन्यं लम्भितौ तौ विलेपतुः । हा ! वत्साः ! स्थ कथं दग्धा दहनेन दुरात्मना ॥ ७९ ॥ कथं शिक्षाऽस्मदीयाऽपि विस्मृता वः शुभोदया । यद्वा मतिर्विपर्येति वेधसि प्रातिकूलिके ॥८०॥ विदुषा विदुरेणाथ पिता ते समबोध्यत । शोको निर्वार्यतामार्य ! मनो धैर्याय दीयताम् ॥८१॥ सर्वे किमधुना पूर्णाः पिशुनानां मनोरथाः ? । किंवा प्रियंवदो भ्रान्तः संशयोऽयं ममाशये ? ॥८२॥ दिनैः कतिपयैरेव सर्वमाविर्भविष्यति ।
आपदः संपदो वाऽपि न स्युश्छन्ना महात्मनाम् ॥८३॥ विदुरस्यानया वाचा स्वल्पीचक्रे शुचं बहिः । बभार भूयसीं देवस्तामन्तर्मनसं पुनः ॥८४॥ मातरः सत्यवत्याद्या व्यपद्यन्त शुचाऽनया । न हि दावानलज्वालां सहन्ते मालतीलताः ॥८५॥ विदुराश्वासनावाक्यैर्महापद्वार्तया च वः । देव: पाण्डुरियत्कालमासीज्जीवन्मृतोपमः ॥ ८६ ॥ कीर्तिर्बकवधोद्भूता स्वर्धुनीवाधुना तव । पावयन्ती भुवं देव ! हस्तिनापुरमभ्यगात् ॥८७॥ सख्यं मष्याः सुधायाश्च सीताऽपि युगपत्तदा । अलम्भयदमित्राणां मित्राणां च मुखानि सा ॥८८॥
१. विपरीता भवति । २. अम्रियन्त । ३. गङ्गा ।
[ ३४५
5
10
15
20
25