________________
10
३४४] [पाण्डवचरित्रमहाकाव्यम् । प्रियंवदेन पाण्डवानां कथितो वृत्तान्सः ॥
असौ धर्मसुतो यस्य मृतस्यापि मुखाम्बुजम् । दासीकरोति निजया पार्वणेन्दुमपि श्रिया ॥६३॥ एष स्थूलवपुर्भीमो भुजावानयमर्जुनः । बृहद्वन्धुसमीपस्थौ मुग्धौ सौम्याविमौ यमौ ॥६४॥ इयं कुन्ती जगन्माता न माता भुवनत्रये ! । तुषाराद्रितुषारांशुशुभ्रा यस्य गुणावली ॥६५॥ असौ द्राघीयसीं निद्रां गता द्रपदनन्दिनी । या प्रेयस्यपि पञ्चानामुच्यते स्म महासती ॥६६॥ इत्थं निश्चित्य निश्चित्य देव ! युष्मांस्तथा जनैः । रुद्यते स्म तथा सर्वै रुदितं पादपैरपि ॥६७॥ चतुर्भिः कलापकम् । युष्मद्गुणानुरागेण वीक्ष्य तान् क्रन्दतो भृशम् । आसीज्ज्ञातप्रबन्धस्य विकल्पो मम चेतसि ॥६८॥ क्वापि ते पुण्यनामानः स्वैरं जग्मुः सुरङ्गया । हा ! दग्धाः पाण्डवा एते मुधैव विलपन्त्यमी ॥६९।। ततः कुतूहलाद् गत्वा ते मया पञ्च वीक्षिताः । युष्मदत्यन्तसादृश्यान्मूढोऽथाहमचिन्तयम् ॥७०॥ धूमस्तोमेन नाद्राक्षुः सुरङ्गाद्वारमाकुलाः । तेनाग्नेरिन्धनीभूताः स्वामिनो मम पाण्डवाः ॥७१॥ यद्वा कान्तारदौरात्म्यादेतत्ते तेनिरे स्वयम् । भवेद्धि तादृशी बुद्धिर्यादृशी भवितव्यता ॥७२॥ इति प्रत्यक्षतो जातयुष्मद्व्यापत्तिनिश्चयः । तारपूत्कारपर्याप्तरोदोरन्धमरोदिषम् ॥७३॥ अस्पृशं समतामन्यैः शोकेनैवानुजीविभिः । भक्तिनिर्वहणे त्वस्मिस्तेभ्योऽहमधमाधमः ॥७४॥ मन्वानास्तृणवत्प्राणान् यत्ते त्वामन्वगुस्तदा । दर्शयाम्येष वो वक्त्रमहं तु प्रियजीवितः ॥७५॥
15
20
25
१. व्यापत्तिः-मरणम् । २. रोदसी-द्यावापृथिव्यौ ।