________________
[३४३
अष्टमः सर्गः । युधिष्ठिर-प्रियंवदयोः क्षेमकुशलवार्ता ॥]
प्रत्युद्यायाथ पार्थेन प्रदत्ताद्भुतगौरवः । भूमिपीठलुठन्मौलिः स ननाम युधिष्ठिरम् ॥५०॥ निबिडोत्कण्ठमाश्लिष्टो भुजाभ्यां पृथिवीभुजा । सहदेवार्पिते नीचैरुपविष्टः स विष्टरे ॥५१॥ दृशा पीयूषवर्षिण्या सिञ्चन्भूपस्तमभ्यधात् । कच्चित्कुशलिनो वत्स ! तातपादाब्जरेणवः ? ॥५२॥ कच्चित्कल्याणवान् कल्पवात्सल्यभरमेदुरः ।। विदुरो नित्यमस्मासु क्षेमनिर्माणदीक्षितः ? ॥५३॥ कच्चिदस्मत् प्रियः सौम्य ! क्षेमवान्नः पितामहः ? । द्रोणः कल्याणवान्कच्चिद्गुरुः पूज्यतमोत्तमः ? ॥५४॥ धृतराष्ट्रः सुखी कच्चित् प्रिता नः पुत्रवत्सलः ? । कच्चिदास्माकमातॄणां ज्यायसीनामनामयम् ? ॥५५॥ कच्चित्पूर्णाभिलाषोऽभूद्वान्धवो नः सुयोधनः ? । तत्र प्रदीपनादूर्ध्वं किं च किं च तदाऽभवत् ? ॥५६॥ कथं च वयमत्रस्था विदांचकृमहे त्वया । एतत्स्वरूपमस्माकं प्रियंवद ! वदाद्भुतम् ॥५७॥ अथ प्रियंवदोऽवादीदेव दुःस्थेऽपि चेतसि । वर्तन्ते वपुषा तावत्सर्वे कुशलशालिनः ॥५८।। तस्मिन्नभ्रंलिहज्वाले कराले जातवेदसि । दह्यन्ते पाण्डवा हा धिगित्येवं पूत्कृतं जनैः ॥५९॥ लोकः शोकाकुलः कामं तं कृशानुं कृशेतरम् । वेगाद्विध्यापयामास बाष्पद्विगुणितैर्जलैः ॥६०॥ प्रदीपनेन नानेन मम किञ्चन दह्यते । इत्यौदासीन्यसुस्थोऽहं न किञ्चिद्दुःखमस्पृशम् ॥६१॥ नेत्रयोः पात्रतां तत्र भटित्रीभूतमूर्तयः । दोष्मन्तो युष्मदाकारा नागरैर्निन्यिरे नराः ॥६२॥
१. प्रभूतम् । २. भटिवं शूलपक्वमांसम् । अर्धदग्धमित्यर्थः ।