________________
अष्टमः सर्गः । पाण्डवानां प्रयाणः ॥]
[३३९
अष्टमः सर्गः ॥
एकदा तु कृशां पश्यन्नन्तर्मनसमायतिम् । एकान्ते मन्त्रयामास बन्धुभिर्धर्मनन्दनः ॥१॥ भीमोपज्ञबकध्वंसकीतिकोलाहलोदयात् । अभूम भूमावेतस्यामवश्यं विदिता वयम् ॥२॥ इयं च सम्प्रति ख्यातिः सर्वथाऽप्यहितैव नः । सन्निपातज्वरार्तानां हारहूरेव हारिणी ॥३॥ जीवतो जातु जानीयादस्मान् दुर्योधनो यदि । राज्यश्रीदुर्मदः किञ्चिदोजायेत ध्रुवं तदा ॥४॥ तदुपक्रम्यते गन्तुमितो नक्तमलक्षितैः । यः षाङ्गण्यप्रयोगेषु कालज्ञः स हि सर्ववित् ॥५॥ ओमिति प्रतिपेदानैः समेतस्तैर्युधिष्ठिरः । सहैव कुन्तीकृष्णाभ्यां रजन्यामचलत्ततः ॥६॥ अरण्यपथपान्थानां तेषामको वृकोदरः । विभावर्यामवष्टम्भयष्टिरासीत्पदे पदे ॥७॥ स्कन्धं ममाधिरोहेति प्रार्थनायां बकद्विषः । बभौ मुखेऽङ्गलिक्षेपः पुरो मातुः पुनः पुनः ॥८॥ वत्सला शुशुभे कुन्ती प्रार्थनां तामकुर्वती । अर्थी पुनः पुनर्दैन्यात् भीमस्तु शुशुभेतमाम् ॥९॥ नाध्यारोहदधिस्कन्धं पुत्रक्लमभयात् पृथा । मातुस्तु पादचारेण भीमस्याभूदृशं क्लमः ॥१०॥
15
20
१. द्राक्षाविशेषः ।