________________
5
३३८ ]
[ पाण्डवचरित्रमहाकाव्यम् । एकचक्रानगरे पाण्डवानां वासः ॥ एकचक्रानरेन्द्रेण विनयाऽऽनम्रमूर्तिना ।
निजं सौधमनीयन्त तदानीं पाण्डुसूनवः ॥७०३॥ वासराणि व्यतिक्रम्य पञ्च षाणि युधिष्ठिरः । पितृराज्याय सत्कृत्य विससर्ज महाबलम् ॥७०४॥ परिचरितपदाब्जः स्वैरसातत्यसेवा-वसरसरभसानां नागराणां गणेन । विपुलधृतिरनेकांस्तत्र मासान् किलैकं, दिवसमिव सबन्धुर्धर्मसूनुर्निनाय ॥७०५ ॥
इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये जतुगृहहिडम्ब - - बक-वध-निरूपणो नाम सप्तमः सर्गः ॥
१. सेवितचरणकमलः ।