________________
10
३३०]
[पाण्डवचरित्रमहाकाव्यम् । भीमः आगतः ॥ दुष्टस्य यस्य नियूंढश्चण्डांशावपि चण्डिमा । ग्रसते स सुधारश्मि राहुरत्र किमद्भुतम् ॥६००॥ तन्मे भर्तृवधं वेधा दुर्मेधा दर्शयिष्यति । न च वीक्षितुमेतं च क्षमेते मम लोचने ॥६०१॥ इत्यालोच्य चिताभ्यणे निमील्य नयने निजे । तथैव भृशमस्वस्थां तस्थौ द्रुपदनन्दिनी ॥६०२॥ देवशर्माऽपि सावित्री स्वकलत्रमभाषत । उत्पातस्याहमेतस्य सञ्जातोऽस्मि निबन्धनम् ॥६०३।। निहितो बन्धुरेतेषां दृशोरविषये मम । रक्षसा हन्यमानांस्तु द्रष्टुं शक्ष्याम्यमून्कथम् ? ॥६०४॥ तच्चेदुद्वन्धनं कुर्यां विशेयं वा महीं यदि । विदीर्येयं स्वयं चेद्वा स्यात्तदैव मम प्रियम् ॥६०५॥ इति जल्पत एवास्य कुर्वन्किलकिलारवान् । बभूव भीमः सर्वेषां तेषां लोचनगोचरः ॥६०६।। अथ व्यापारितस्फारफालमालोक्य तं तदा ।। तेषां रोमोद्गमव्याजात्सर्वाङ्ग मुदितं मुदा ॥६०७॥ अथ स्फूर्जदवष्टम्भमभाषिष्ट युधिष्ठिरः । बन्धुीमो मदीयः किं राक्षसैः परिभूयते ? ॥६०८॥ भवितारस्तरां पञ्चाप्यजय्या जगतोऽप्यमी । इयं नो भारती दिव्या जन्मोत्था हि किमन्यथा ? ॥६०९॥ गतिं भवन्तो गन्तारः क्रमात्पञ्चापि पञ्चमीम् । इत्याख्यायि मुनीन्द्रैर्यत्तदसत्यं भवेत् किमु ? ॥६१०॥ एवमस्मिन्वदत्येव वेगादेत्य वृकोदरः ।। कुन्ती च ज्येष्ठबन्धुं च नमस्यामास सादरम् ॥६११॥ दूरात्प्रणमतो बन्धून्समालिङ्ग्य कनीयसः । स्मितोत्फुल्लमुखो भीमः पप्रच्छ क्षोभकारणम् ॥६१२॥ अथ पार्थः समाचख्यौ यथावृत्तं तदातनम् । दिक्षु भीमोऽथ चिक्षेप चक्षुः कृष्णादिदृक्षया ॥६१३।।
15
20