________________
[३२९
सप्तमः सर्गः । पार्थादीनां चिन्ताः ॥]
अध्यशेत ममोत्सङ्गे यः शयालुरनेकधा । अयं स एव मौलिस्ते गाहते हि महीतलम् ॥५८७।। जानीयास्त्वमिदानीं मा मात्मान्तिकमुपेयुषीम् । एवं विलप्य पाञ्चाली चितामारचयत्तदा ॥५८८।। राज्यभ्रंशं प्रवासं च विना भीमेन दुःसहम् । विभाव्य धर्मपुत्राद्यैर्मरणायोपचक्रमे ॥५८९॥ अहमेवाभवं हेतुरेतस्मिन्नसमञ्जसे । इति निश्चित्य संनद्धं मृत्यवे देवशर्मणा ॥५९०॥ अथाश्रूयत तैः सर्वैर्ब्रह्मस्तम्बोदरंभरिः । गुहागह्वरवर्धिष्णुर्मुहुः किलकिलारवः ॥५९१॥ श्रुत्वा तं चिन्तयामास सक्षोभं धर्मनन्दनः । भीमं हत्वाऽयमभ्येति हन्तुमस्मान्निशाचरः ॥५९२॥ शीर्षच्छेद्यो ह्यसौ दिष्ट्या स्वयमेत्यस्मदन्तिकम् । वैरं निर्यात्य भीमस्य करिष्यामः स्वमीप्सितम् ॥५९३॥ विचिन्त्येत्यवदत् पार्थं वत्सागच्छति राक्षसः ।। अस्य जीवितमादाय भीममुज्जीवय द्रुतम् ॥५९४॥ इत्यादिष्टः सकोपेन किरीटी ज्येष्ठबन्धुना । अधिज्यं धनुरादाय तस्थौ रक्षोदिशं प्रति ॥५९५॥ कुन्ती तु चिन्तयामास पार्थः कर्षति सम्प्रति । राक्षसापसदस्यास्योदरादाशु वृकोदरम् ॥५९६॥ अस्मिन्कृतान्तपादान्तपरिचारिणि वैरिणि । अन्वेष्यामि सुखेनैव भीममत्यन्तवत्सलम् ॥५९७॥ चक्रे मनसि कृष्णाऽपि भयात्कृष्णमुखी ततः ।। हा ! हताऽस्मि पतीनेतान्हन्तुमेति क्षपाचरः ॥५९८॥ यत्र निर्नाम निर्मग्नं भीमस्यौजो महोजसः ।। तत्र पार्थस्य शौण्डीर्यं किन्नु नाम करिष्यति ? ॥५९९॥ १. अयोग्ये । २. वालयित्वा । ३. अनुगमिष्यामि । ४. नामरहितम् ।