________________
३२८]
[पाण्डवचरित्रमहाकाव्यम् । द्रौपद्याः परिदेवमम् ॥ मामिदानीं त्वया सौम्य त्यक्तं विधुमिवाधुना । बाढं बाधिष्यते क्रूरः सुयोधनविधुतुदः ॥५७५॥ अथवा तव सार्थेन यास्यतो मम निश्चितम् । विरोधेसावधानोऽपि किं विधाता सुयोधनः ? ॥५७६॥ इत्थं विलापविकलो यावदालोकते पुरः । तावद् धर्मात्मजः कुन्ती जातमूर्छामुदैवत ॥५७७॥ तनूजैस्तैस्ततः कुन्ती वीजिता प्राप्य चेतनाम् । पर्यदेवत हा ! वत्स ! सत्त्वोदार ! वृकोदर ! ॥५७८॥ मुनिभिर्वज्रकायस्त्वं कथितस्तत्कथं बकः । मृणालकन्दलीछेदमिदं चिच्छेद ते शिरः ? ॥५७९।। तवैतस्योत्तमाङ्गस्य क्रियेऽहमवतारणम् । पुरो येन गिरिग्रावा भस्मचूरमचूर्यत ॥५८०॥ प्रकाशः प्राग् ययोरासीत्तामसीष्वपि रात्रिषु । नेत्राभ्यामधुना ताभ्यां कथं मामपि नेक्षसे ? ॥५८१॥ तेषु तेष्ववदातेषु मुहुराघ्रायि यो मया । सोऽयं सन्मूर्द्धजो मूर्द्धा कथं लुठति भूतले ? ॥५८२॥ इत्थं विसंस्थुलं कुन्त्यां विलपन्त्यां मुहुर्मुहुः । तमुपादाय मूर्धानं द्रौपदी विदधे हृदि ॥५८३॥ व्यलपत्तुमुलं साऽपि पादपान्तरिता ततः । हा ! नाथ ! मथिताराते ! क्व गतोऽसि विहाय माम् ॥५८४॥ मया प्राणेश ! ये केशा विकीर्णाः करकङ्कतैः । धूलिधूसरितास्तेऽमी विलुठन्ति भुवस्तले ॥५८५॥ विद्रुमाभः पुरा योऽभूत्सुधास्वादुस्तवाधरः । धिग्विधे(धि) सोऽधुना धत्ते प्रम्लानेन्दीवरश्रियम् ॥५८६॥
20
१. सौम्यो बुधः । तेनत्यक्तो रहितस्तम् । २. 'ग्रहपञ्चकसंयोगं दृष्ट्वा न ग्रहणं वदेत् ।
यदि न स्याद्धस्तत्र तं दृष्ट्वा ग्रहणं वदेत्' । एतदनुगामिनीयं कल्पना । ३. सुकेशः ।