________________
सप्तमः सर्गः । द्रौपद्या: हर्षः ॥ ]
दृष्ट्वा कृष्णां तथाभूतां चितानिकटवर्तिनीम् । स गत्वा पिदधे तस्याः पाणिभ्यां क्रीडया दृशौ ॥ ६१४ ॥ भयेन वेपमानाङ्गी कृष्णाऽथ गिरमादधे । रात्रिंचर ! दुराचार ! रे ! पाप ! परतो भव ॥६१५॥ आर्यपुत्रस्य भीमस्य बेलाद्बधविधानतः । अद्रष्टव्यमुखोऽसीति मया नेत्रे निमीलिते |॥६१६॥ मम प्रियवधे हस्तौ यौ तव व्यापृतौ पुरा । उग्रदण्डोचितौ दुष्ट ! तावेतौ दूरतः कुरु ||६१७|| हंतैवाहं पुरा हन्त ! जीवितेशवधात् त्वया । हे ! (रे) दुरात्मन्निदानीं तु कुरुषे मृतमारणम् ॥६१८॥ कान्तमन्वेतुकामाऽहमारोहामि स्वयं चिताम् । निजाङ्गस्पर्शतः पाप ! मा मा मां मलिनीकुरु ॥६१९॥ नाद्याप्यसौ भयं शत्रोर्मुञ्चतीति विचिन्तयन् । अपसार्य निजौ पाणी भीमस्तामिदमभ्यधात् ॥६२०॥ प्रिये ! द्रौपदि मा भैषीर्विलोकय निराकुला । पुरस्ते न ह्ययं रक्षो रक्षोघाती तु ते प्रियः ॥ ६२१॥ पङ्कजोत्फुल्लनयना नयनाभ्यामुदैक्षत । सा प्रेयांसमुदाराङ्गं नोत्तमाङ्गं तु तत्पुरः ॥६२२॥ दिष्ट्या मे जीवितव्येशः कुशलीति मुदं पराम् । कि (नु) मायाविनो माया राक्षसस्येति सम्भ्रमम् ॥६२३॥ क्व नु तेनोत्तमाङ्गेन प्रयातमिति विस्मयम् । मया रक्षोभयात्प्रोक्तमसम्बद्धमिति त्रपाम् ॥६२४||
इत्थं वहन्ती सङ्कीर्णान्भावान् प्रियतमेन सा ।
तथाऽऽश्लेषि यथा तन्वोर्भेदवादो न्यवर्तत ॥६२५॥ त्रिभिर्विशेषकम् ।
स्तनोपपीडमाश्लिष्टा प्रेयसा सा रसान् परान् । मुक्त्वा जितसुधासेकमेकमानन्दमन्वभूत् ॥६२६॥
१. च्छलाद्० प्रतौ ।
[ ३३१
5
10
15
20
25