________________
5
10
15
20
25
३२६ ]
[ पाण्डवचरित्रमहाकाव्यम् । बको भीममपाहरत् ॥
तत्रालोक्य गदां पादसम्मर्दं च शिलान्तिके । स प्रत्यासन्नमासन्नमूर्च्छः पप्रच्छ देवलम् ॥५४९॥ ब्रूहि बन्धो ! प्रबन्धोऽयमधुना कीदृशोऽभवत् ? । वनमायातपूर्वी च लक्ष्यते राक्षसो यतः ॥५५०॥ शशंस सोऽपि भो विप्र ! कोऽपि पीनवपुः पुमान् । अध्यशेत शिलामेत्य तूलिकामिव लीलया ॥५५१॥ वेगादागत्य तमितो द्वितीयमिव पर्वतम् । निरीक्ष्य रक्षसां नेता निनाय निजभूधरम् ॥५५२॥ एतावत्यन्तरे क्रूरैरुत्कृत्योत्कृत्य खण्डशः । ध्रुवं कवलयाञ्चक्रे स रक्षोभिर्बुभुक्षितैः ॥५५३॥ त्वां वध्यवेषमुद्वीक्ष्य ध्रुवं सम्भावयाम्यहम् । कश्चित्तवैव पर्याये सुकृती त्यक्तवानसून् ॥५५४॥ तच्छ्रुत्वाऽतीव चक्रन्द वज्राहत इव द्विजः । हा परोपकृतिप्रौढ ! निर्व्यूढाद्भुतसाहस ! ॥५५५॥ ममाधमर्ण्यमाधाय गत्वा राक्षसपांसनम् । विश्वरक्षाक्षमैर्भ्रातः ! प्राणैरप्रीणयः कथम् ? ॥५५६॥ न त्वया विदधे साधु प्राणैर्मामपि रक्षता । यतस्तृणमणिस्थाने हन्त चिन्तामणिर्गतः ॥ ५५७॥ स विप्रो विलपन्नेवं निजं सम्प्रेष्य मानुषम् । पृथायाः कथयामास कथां दत्तव्यथामिमाम् ॥५५८॥ पृथाऽपि सह पाञ्चाल्या पङ्किलं मार्गमश्रुभिः । कुर्वती वनमभ्यागात्सार्धं धर्मसुतादिभिः ॥५५९॥ काम्येऽपि कानने तस्मिन्नस्पृशन्तो रतिं क्वचित् । सङ्गताः केसरस्याधस्ते सर्वे देवशर्मणा ॥५६०॥ अथ शोकेन पक्ष्मान्तवान्ताश्रुकणधोरणिः । युधिष्ठिरमभाषिष्ट द्विजः स्वानुशयाऽऽशयः ॥५६१॥ १. देवपूजकम् । २. स्थाने । ३. सुन्दरे । ४. मिलिताः ।