SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ [३२५ सप्तमः सर्गः । बकासुरोपद्रवः ॥] इति प्रमुदितस्वान्तो दन्तान्सोऽत्यन्तदारुणः । देहे व्यापारयामास मांसले पाण्डुजन्मनः ॥५३६॥ भीमस्य वज्रकायस्य काये व्यापारिता अपि । अवापुः कुण्ठतां तस्य दन्ताः कुन्ता इवाश्मनि ॥५३७॥ भीमवक्षःस्थले स्थूलंभावुकक्षुत्क्लमोदयः ।। खननोपक्रमं चक्रे नखकुद्दालकैर्बकः ॥५३८॥ त्रु(त्र)टत्कारकरास्तस्य नखरास्ते खरा अपि । मृणालकदलीभशं भज्यन्ते स्म समन्ततः ॥५३९॥ विस्मितश्च विलक्षश्च लज्जितः सज्जितश्च सः ।। रक्षोनिवहमाह्वास्त समस्तं स्वस्य सन्निधौ ॥५४०॥ ऊचे न नरमेकैकं स्वादयन्नहमन्वहम् । अस्मिन्भूभृति भूयांसमनेहसमलवयम् ॥५४१॥ परं न कोऽप्यभूदीदृक्पुरुषः परुषच्छविः । न च स्थिरो न च स्थूलवपुर्नाप्यकुतोभयः ॥५४२॥ तदेनं स्वे नगे नीत्वा तीक्ष्णेन तरवारिणा ।। उत्कृत्योत्कृत्य कर्तास्मि सर्वेषामाशितंभवम् ॥५४३॥ तदवश्यमुदस्यध्वमेनं मानुषमादरात् । इत्युक्तास्ते तथा चक्रुरुद्दामबलशालिनः ॥५४४॥ भीमभारभराक्रान्ता मुखेनोद्वान्तशोणिताः । नक्तंचराः पिशाचास्ते निपेतुर्धरणीतले ॥५४५॥ अथ सम्भूय भूयोभिस्तैः समं बकराक्षसः । भीमं कथञ्चिदुत्पाट्य निनाय निजभूधरम् ॥५४६॥ इतः साकं कुटुम्बेन विलापविकलात्मना । प्रणम्य सर्वदेवेभ्यो देवशर्मा गृहे गतः ॥५४७॥ दूरादधिगृहद्वारमदृष्ट्वा शकटं बलेः । स द्विजो द्विजवाचालं जङ्घालः काननं ययौ ॥५४८॥ युग्मम् । १. कालम् । २. भोजनम् । ३. पक्षिभिर्वाचालम् । ४. धावकः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy