SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः गाङ्गेयस्य भिष्मप्रतिज्ञा ॥ ] राज्यमाच्छेतुमुत्सिक्तैः शक्तैस्ते तनुजन्मभिः । आत्तश्रीः पुनरश्रीको भविता मत्सुतासुतः ॥२०७॥ इत्थं नानाऽऽधिवैधुर्यं भावि सम्भाव्य भूरिशः । सुतायामायतौ तात ! पुनः स्खलति मे मनः ॥२०८॥ इत्युक्तवन्तं तं हृष्यन्नन्तः शान्तनवोऽभ्यधात् । एतामपि तवेदानीं चिन्तां व्यपनयाम्यहम् ॥ २०९॥ शृणु त्वं व्योम्नि शृण्वन्तु सिद्धगन्धर्वखेचराः । ममैकं मुषिताशेषपापग्रहमनिग्रहम् ॥२१०॥ स्वर्गश्च सोऽपवर्गश्च यस्य ख्याता फलद्वयी । आजन्म तन्मयोपात्तं ब्रह्मचर्यमतः परम् ॥ २११ ॥ माता मातामहस्तातो भाविनो बान्धवाश्च ये । एषामानन्दधुर्यस्य व्रतस्यास्य किमुच्यते ? ॥२१२॥ चारणश्रमणैः पूर्वमिति मे प्रतिपादितम् । प्रथमं च चतुर्थं च व्रतेष्वनुपमे व्रते ॥२१३॥ प्रतिपेदे मया पूर्वं प्राणिनामभयव्रतम् । ब्रह्मव्रतमिदानीं तु मम भाग्यमहो ! महत् ॥ २१४॥ अस्तु त्रैस्तविपद्वार्तं तार्तीयीकमपि व्रतम् । पितृशुश्रूषणं नाम ममाजन्म निरत्ययम् ॥ २१५॥ इति प्रस्तुवतस्तस्य श्रद्धालोर्मूनि बन्धुरम् । भृङ्गबद्धस्वनोत्कर्षं पुष्पवर्षं दिवोऽपतत् ॥ २१६ ॥ उच्चेरुरिति वाचश्च देवा धन्याऽसि जाह्नवि । त्वं चासि शान्तनो ! श्लाघ्यः सोऽयमीदृग्ययोः सुतः ॥२१७॥ सर्वेऽपि ज्ञानिनो ब्रूत पृच्छामः खेचरा वयम् । यद्येतद्व्रतमारब्धं केनापि गृहमेधिना ? ॥२१८॥ तत्त्वसत्त्वैकनिःस्यन्दमयो यदयमाददे । ईदृग्ब्रह्मव्रतं भीष्मं भीष्मस्तेनैष गीयताम् ॥ २१९॥ [ १९ १. आत्ता - गृहीता श्री यस्य सः । २. 'धुर्येन' इति प्रत्यन्तरत्रयपाठः । ३. त्रस्ता विपदां वार्त्ता यस्मात्तत् । ४. देवि ! इति प्रतिद्वयपाठः । 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy