SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ३२२] [ पाण्डवचरित्रमहाकाव्यम् । मुनीन्द्रवचनेन सर्वेषामाश्वासनम् ॥ सर्वे वेन्दारवः पौरास्तभ्यर्णमुपाययुः । सोऽपि कारुणिकस्तेभ्यः परं धर्ममुपादिशत् ॥४९६॥ तेनोपदेशपीयूषपानेन प्रसन्मुदः । समये विश्वमार्तण्डं मुनीन्द्रं तेऽन्वयुञ्जत ॥४९७॥ प्रभो ! प्रसीद सीदन्ति पौराः सर्वे निवेद्यताम् । विरंस्यति जनस्यास्य राक्षसोपद्रवः कदा ? ॥४९८ ॥ मुनिनाथोऽ Sप्यथाऽऽचख्यौ भो ! भद्राः पाण्डुसूनवः । जिता द्यूते यदैष्यन्ति वनवासक्रमादिह ॥४९९ ॥ असौ तदानीं भविता नगरी निरुपद्रवा । सदाऽप्यगोचरो वाचां महिमा हि महात्मनाम् ॥५००॥ इत्याख्याय स लोकाय जगाम मुनिपुङ्गवः । तादृशां हि महीं सर्वां प्रियां कर्तुमुपक्रमः ॥५०१॥ तेन चन्द्रातपेनेव मुनीन्दोर्वचनेन ते । बभूवुः प्रीतिकल्लोलैर्नागराः सागरा इव ॥५०२॥ वर्णा अपि सुधाकीर्णाः पाण्डवाः पाण्डवा इति । एतद्वाच्या भविष्यन्ति पुमांसः कीदृशाः पुनः ॥ ५०३॥ इत्युक्तैः कुलदेवीभ्यः पाण्डवागमनैषिभिः । उपायाचितलक्षाणि पौरैः प्रत्येकमीषिरे ॥ ५०४ ॥ युग्मम् । हस्तिनापुरमार्गेण नानोपायनपाणयः । प्रत्युद्ययुश्च ते नित्यं पाण्डवेयान्प्रति प्रगे ॥ ५०५॥ जनानां जानतामेतानद्यश्वीनसमागमान् । एकदा पथिकः कश्चिदाययौ तेन वर्त्मना ॥५०६॥ स तैरप्रच्छ भोः पान्थ ! कथयास्मिन्पथि क्वचित् । उदन्तः पाण्डवेयानां कश्चित्क्वचित्त्वया श्रुत: ? ॥५०७|| शशंस सोऽपि भोः पौराः ! पथि चङ्क्रमणक्रमात् । आगतोऽस्मि श्रियो वासवारिजे वारणावते ॥ ५०८ || १. वन्दनशीलाः । २. अपृच्छन् । ३. प्रिया-प्रियी इति प्रत्यन्तरे० : ४. अक्षराणि ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy