________________
[३२३
सप्तमः सर्गः । पाण्डववृत्तान्ततः सर्वेषां शोकः ॥]
जनेभ्यस्तन्निवासिभ्यः सबाष्पेभ्यः पदे पदे । इति कर्णविषं तस्मिन्नश्रौषमतिदारुणम् ॥५०९॥ दुर्योधनस्य वचसा वसन्तो जातुषे गृहे । इह चण्डाः सुताः पाण्डोर्दाहं प्रापुः प्रदीपनात् ॥५१०॥ इहानुजीविभिस्तेषां विरचय्योचिताश्चिताः । प्राणास्तेनैव सार्थेन प्रहिताः प्रभुवत्सलैः ॥५११॥ वीक्ष्य भस्मस्थली: स्थूलाः कीर्तीस्तेषां निशम्य च । ममापि निरमाप्यन्त बाष्पैः कूलंकषा दृशः ॥५१२॥ अथावेद्य कथामेतां स पान्थः प्रस्थितः पुरः । आक्रन्दश्चैकचक्रायां चक्रेऽतितुमुला दिशः ॥५१३॥ न मातुर्न पितुर्नैव स्वामिनो मृत्युवार्तया । अभवत्तादृशः शोकः पौराणां यादृशस्तदा ॥५१४॥ निःप्रत्याशैर्निरानन्दैस्तत:प्रभृति नागरैः । पूर्यते यातुधानस्य विशेषेण मनीषितम् ॥५१५॥ तदिदानीं द्रुतं यामि प्रणम्य कुलदेवताम् । सर्वेषामेव युष्माकं जज्ञेऽनुज्ञाञ्जलिर्मम ॥५१६॥ इति व्याहृत्य धैर्येण संवर्मितमनास्ततः । सकुटुम्बोऽप्यगाद्विप्रः प्रणन्तुं कुलदेवताम् ॥५१७।। अथाभ्यधात् पृथा भीमं वत्स ! त्वयि तनूरुहे । एकस्यापि द्विजस्यास्य नाभूवमभयप्रदा ॥५१८॥ धन्यास्ते सति सामर्थ्य धरायां वाधिसीमनि । ये सर्वप्राणिरक्षार्थं ददत्यभयडिण्डिमम् ॥५१९॥ ये तूपकारकस्यापि विपन्नद्यां निपेतुषः ।। निबिडं नोडुपायन्ते तेषामजननिर्वरम् ॥५२०॥ महाऽऽपदमपाकर्तुमेतामस्योपकारिणः । अहं न चेदलंभूष्णुस्तन्मां धिक् धिक् च मे सुतान् ॥५२१॥
१. राक्षसस्य । २. पतितस्य ।