________________
[३२१
सप्तमः सर्गः । देवशर्माद्विजस्य कथनम् ॥]
इति द्विजन्मनो वाचं व्याख्यातबकविक्रमाम् । आकर्ण्य मातुरभ्यर्णवर्ती भीमस्तमभ्यधात् ॥४८३।। त्वया पुत्रवतींमन्या माता नः सर्ववत्सला । पश्यन्त्यपायमायातमन्तःसन्तप्यतेतराम् ॥४८४॥ जननीयं कृतज्ञानां त्वं च विश्वोपकारिणाम् । धौरेयतामयासिष्टमिति पश्यति मे मतिः ॥४८५॥ भवन्तमन्तकप्रायाद् योऽभिरक्षति राक्षसात् । तमेव सुतमात्मीयमम्बा मनसि मन्यते ॥४८६।। तदहं विहितोत्साहो मातुराधातुमीप्सितम् । त्वं तिष्ठ निष्ठुरं दुष्टमुपस्थातास्मि राक्षसम् ॥४८७॥ देवशर्मा ततः प्राह मैवं वद महामते ! । न क्षमे श्रोतुमप्येतामब्रह्मण्यां गिरं तव ॥४८८॥ उररीकृत्य ते मृत्युं नात्मानं त्रातुमुत्सहे । इन्द्रनीलोपमर्दैन कः काचं परिरक्षति ? ॥४८९॥ मादृशस्य द्विजस्यार्थे नररत्नं भवादृशम् । राक्षसायोपनेतव्यमिति कोऽन्योऽपि मन्यते ? ॥४९०॥ त्वादृक्षो विरलः कोऽपि परोलक्षास्तु मादृशाः । स्वल्पः कल्पतरुलॊके भूयांसोऽन्ये हि भूरुहः ॥४९१॥ नियन्ते पञ्च-षाण्येव मानुषाणि मृते मयि । अस्या मूर्तेर्विपत्तौ तु सर्वा सीदति मेदिनी ॥४९२।। एतौ तव भुजौ वीक्ष्य स्वयं त्रस्यन्ति शत्रवः । अक्षामस्थामधामाऽयं न पुनर्बकराक्षसः ॥४९३॥ बक एव बको यद्वा तव दो:पाशयोः पुरः । केवलं केवलिप्रोक्ता गिरः संशयकारणम् ॥४९४॥ यतोऽमुष्यां पुरा पुर्यां केवली मुनिरार्हतः । उदियाय पुरः शैलचूलायामिव भास्करः ॥४९५॥