SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 10 ३१८] [पाण्डवचरित्रमहाकाव्यम् । बकासुरवृत्तान्तः ॥ अरे ! वराकाः सपदि स्मरताभीष्टदेवताम् । शिलासञ्चूर्णितास्तूर्णमिदानीं न भविष्यथः ॥४४४॥ तेऽथ तेनैवमाक्षिप्ताः पुनरेवं बभाषिरे । विद्याविद्याधराधीश ! किं न कुर्यादसंशयम् ? ॥४४५॥ नैतावतैव कार्येण पुरीं संहर्तुमर्हसि । को नाम कीलिकाहेतोः प्रासादोच्छेदमिच्छति ? ॥४४६॥ इदं विद्यापरीक्षायै पुरीसंहरणं वृथा । भस्मने भस्मसात्कुर्यात्को हि चन्दनकाननम् ? ॥४४७॥ तदेनमेनसामेकं सङ्क्रमं प्रक्रमं त्यज । किं च त्रिलोकीत्राणाय विद्या व्यापार्यतामियम् ॥४४८॥ सोपरोधमिति प्रोक्तः सोऽभ्यधान्निष्कृपः पुनः । मांसैकलुब्धमनसो दैन्यगृह्या न राक्षसाः ॥४४९॥ अस्ति युष्माकमेकस्तु पणः प्राणप्रियङ्करः । मम दत्तोपहारं चेदेकं मानवमन्वहम् ॥४५०॥ मदीयपुरनेदीय:कान्तारे भैरवाभिधे । मत्प्रसादाथिभिः प्रांशुः प्रासादश्च विधाप्यताम् ॥४५१॥ जात नैवं कृतेऽवश्यं भविता वः पराभवः । सदैव दैवतेभ्योऽपि परचक्रात्तु का कथा ? ॥४५२॥ इदं वोऽस्तु पुरीं त्रातुमेकमौपयिकं परम् । तदरे ! रोचते यद्वस्तदाचरत सम्प्रति ॥४५३॥ इति व्याहृत्य विरते दुर्नयाऽऽसेवके बके । अनिष्टामपि तां पौरास्तगिरं प्रतिशुश्रुवुः ॥४५४॥ अथेन्द्रजालिकेनेव राक्षसेन्द्रेण तत्क्षणात् । अपासार्यत सर्वोऽपि शिलादिदिवि डम्बरः ॥४५५॥ ततः कुमारिकाकृष्टनामपत्रनियोगतः । पर्यस्थाप्यत पर्यायः पौरैः पुरनिवासिनाम् ॥४५६।। १. आरम्भम् । २. दैन्येन ग्रहीतुं शक्याः । ३. समीपम् । 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy