________________
[३१९
सप्तमः सर्गः । बकासुरवृत्तान्तः ॥]
बकमूर्तिसनाथश्च प्रासादो निरमाप्यत । बलिनश्च विधातुश्च नियोगः केन लथ्यते ॥४५७॥ एकस्ततः प्रभृत्यम्ब ! पुमांस्तस्योपदीयते ।। असौ द्रोणप्रमाणश्च शाल्योदनमयो बलिः ॥४५८॥ तदेनं बलिमादाय मातर्नृपनिदेशतः । पर्यायोपगतः सोऽहं यास्यामि विपिनेऽधुना ॥४५९॥ तन्निराशं निरालम्बं कुटुम्बं मम रोदिति । आश्रयद्रुमनाशे हि दीनाः क्रोशन्ति पक्षिणः ॥४६०॥ किं चान्यत्सङ्कटं यन्मे तन्मातः ! शृणु सम्प्रति ! । यदेषा ब्राह्मणी वक्ति मामिदानीं पुनःपुनः ॥४६१॥ किं कार्यममुना नाथ ! त्वां विना जीवितेन मे । साऽपत्याऽपि भृशं लप्स्ये त्वदृते हि पराभवम् ॥४६२॥ ततोऽहमुपहाराय तस्य यस्यामि रक्षसः ।। कल्पायुस्त्वं पुनर्भूया भुञ्जानो भूयसीं श्रियम् ॥४६३॥ त्वत्प्राणत्राणकारिण्याः कुलेऽस्तु कलशो मम । भर्तुर्विपदमाच्छेत्तुमतिच्छेकाः कुलस्त्रियः ॥४६४॥ भुक्तं मृष्टं सुखं स्पृष्टं दृष्टं मुखमपत्ययोः । त्वत्तः किं किं मया नाप्तं ? नास्ति मृत्योर्भयं मम ॥४६५॥ व्रजन्तं केवला नेयं मां रुणद्धि सर्मिणी । असावप्यात्मजेदानीं सुदती वदतीति नौ ॥४६६॥ मा मातर्मा स्म वा तात गच्छतं राक्षसो मुखे । आहारमुपहारं च कर्तुं तस्योद्यताऽस्म्यहम् ॥४६७॥ बालो यद् युवयोरेव जीवतोरेष जीवति । माताऽपि तातशुश्रूषां करोत्वाकल्पजीविनी ॥४६८॥ यदि मां नानुमन्यध्वे(मंस्येथे) युवां नास्मि तथाप्यहम् । युवयोर्गेहवास्तव्या परार्था हि पतिंवरा ॥४६९॥ १. पर्यायेण-अनुक्रमेण उपगतः प्राप्ताः । २. स्वादिष्ठम् ।